________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) चासावहेतुकः, सदा तद्भावादिप्रसङ्गादिति। न चैवमालोकाधनुविद्धोऽवबोध इति तदङ्गत्वेऽपि नार्थतादात्म्यमस्य । न च न तदभावेऽपि स्पर्शनेनार्थग्रहः, तथाप्रतीतेः । न चैवं शब्दाननु- ५ विद्धन बोधेन तद्ब्रहः तत एव हेतोरिति शब्दार्थयोस्तादात्म्यसिद्धिः, नीलादेरिव तज्ज्ञाने शब्दप्रतिभासनात् । कथं तर्हि क्षुरिकाऽनलाऽचलादिशब्दोचारणे न वदनपाटन-दाह-पूरणादय इति? उच्यते-तबोधभावे पाटनादिबोधाभाववत् तदवस्थाभेदहेतुत्वात् पाटनादीनाम् , बाह्यार्थपक्षेपि यत्नतः क्षुरिकादिमुखावेशतदभाव-१०
(खो० व्या०) उभयत्र तत्स्थूरभावोऽहेतुका । कुत इत्याह-सदा तद्भावादिप्रसङ्गात् तयोः शब्द-बोधयोः स्थूरयोर्भावादिप्रसङ्गादिति । इहैवाक्षेपान्तरपरिहारायाह-न चैवमित्यादि । न चैवं-यथा शब्देन तथा आलोकादिभिरपि । “आदि'शब्दादिन्द्रियादिग्रहः । अनुविद्धः-व्याप्तोऽवबोध इति कृत्वा तदङ्गत्वेऽपि-बोधा- १५ ङ्गत्वेऽप्यालोकादेर्थितादात्म्यमस्य आलोकादेरेव, शब्दस्य त्वर्थतादात्म्यं तद्बोधानुवेधादिति भावः । इहैवोपचयमाह-न चेत्यादि । न च न तदभावेऽपिआलोकायभावेऽपि स्पर्शनेन्द्रियेण अर्थग्रहः, किन्तु तद्रह एव । कुत इत्याहतथाप्रतीते:-आलोकाद्यभावेऽपि स्पर्शनेनार्थग्रहप्रतीतेः । न चैवं-यथा लोकाननुविद्धन तथा शब्दाननुविद्धन केवलेन बोधेन तद्वहः-अर्थग्रहः । कुत २० इत्याह-तत एव हेतोः, तथाप्रतीतेरित्यर्थः। इति-एवं शब्दार्थयोस्तादात्म्यसिद्धिः। भावनासर्वस्वमाह-नीलादरिव (तज)ज्ञाने शब्दप्रतिभासनात्, तदात्मकत्वादित्यर्थः । कथं तर्हि शब्दार्थयोः तादात्म्ये क्षुरिका-ऽनला-ऽचलादिशब्दोचारणे, 'आदि'शब्दादुदकादिग्रहः, न वदन-पाटन-दाह-पूरणादय इति? । 'आदि'शब्दात् क्लेदनादिग्रहः । एतदाशय पूर्वपक्षवाद्यवाह-उच्यते- २५ तद्बोधभावे-क्षुरिकादिबोधभावे पाटनादिबोधाभाववदिति निदर्शनम् । तदवस्थाभेदहेतुत्वात् पाटनादीनां न पाटनादय इति विज्ञानवादिमते परिहारः । बाह्यार्थपक्षेऽपि यत्नतः क्षुरिकादिमुखावेशतदभाववादिति निदर्शनम् ,
१ऽपि आलोकादि(?) नार्थतादात्म्य.' इति क-पाठः। २ 'विद्धेने बोधिन तद्ग्रहः' इति चिन्तनीयः क-पाठः । ३ 'शब्दस्य प्रति०' इति क-पाठः। ४ 'उभयत्र स्थूर.' इति ङपाठः। ५ 'त्वर्थे तादा.' इति उ-पाठः। ६ 'स्पर्शनेन इन्द्रियार्थ.' इति क-पाठः। ७'तदास्मकत्वमित्यर्थः' इति -पाठः । ८ 'बोधाभावादिति' इति क-पाठः।