________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[ चतुर्थः
( मूलम् )
न्याय्यम्, शब्दानुविद्धवाखिलोऽर्थावबोध इत्यनुभवः प्राणभृताम्, तदभावे बोधानुपपत्तेरिति । आह च शब्दार्थतत्त्ववित्"वागरूपता चेदुत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥' न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्व शब्देन जायते ॥ *
३६६
इत्यादि । न चालोचनाज्ञानमपि शब्दाननुविद्धम्, तथाऽननुभवेऽपि " सुप्तादिबोधवत् तत्सूक्ष्मभावोपपत्तेः, ऊर्द्ध तत्स्थूरभावात् । न ( स्वो० व्या० )
ज्ञानेन अर्थप्रतिपत्तिरित्यनयोरपि-शब्दार्थयोरिदं तादात्म्यं न्याय्यम् । एतत्स्पष्टनायैवाह - शब्दानुविद्धश्चाखिलोऽर्थावबोध इति - एवमनुभवः प्राणभृतां सर्वेषामेव, तदभावे - शब्दाभावे बोधानुपपत्तेरिति । आह् १५च शब्दार्थतत्ववित्-भर्तृहरिः- वाररूपता चेदुत्क्रामेत्-यायात् अबबोधस्य । किंविशिष्टा ? शाश्वती - नित्या । किं स्यादित्याह-न प्रकाशः प्रकाशेत, न ज्ञानं तिष्ठेदित्यर्थः । न चालोचनाज्ञानमप्यनयाऽननुविद्धमित्याहसा हि प्रत्यवमर्शिनी । न चासत्या एव प्रत्यवमर्शास्तथा न सोऽस्ति प्रत्यय:अवबोधो लोके यः शब्दानुगमाहते - शब्दानुगमं विना अनुविद्धमिव ज्ञानं २० सर्व शब्देन जायत इति प्रतिपत्तिगोचरतां 'नीयते । तत्त्ववस्तु तच्छब्दात्मकमेव इत्यादि अन्यदपि गृह्यते । इहैवाशङ्कान्तरापोहायाह-न चालोचनाज्ञानमपि - निर्विकल्पकत्वाभिमतं शब्दाननुविद्धम्, किन्त्वनुविद्धमेव । तथाऽननुभवेऽपि ष्टतयाऽननुभवेऽपि सति सुप्तादिबोधवदिति निदर्शनम्, नायमपि स्पष्टतया अनुभूयत इति सिद्धमेतत् । तत्सूक्ष्मभावोपपत्तेः२५ शब्द सूक्ष्मभावोपपत्तेरुपपत्तिश्च ऊर्द्ध तत्स्थूर भावात् तस्य शब्दस्य स्थूरभावात् तस्मात् सुप्तादिबोधवदिति निदर्शनेऽपि तत्स्थूरभावः सिद्ध एव । न चासौ( विवरणम् )
(२३) सुप्तादिबोधवदिति । सुप्रस्य सतो यो बोधोऽनात्मरूप: । 'आदि' शब्दादुन्मत्तादिबोधग्रहः । ततः सुप्तादिबोधे यो बोधो बोधप्रतिबद्ध एव व्यापारस्तद्वत् । ३० यथाहि सुप्रादिज्ञानेषु सूक्ष्मो बोधः, एवमालोचनज्ञानेऽपि सूक्ष्मः शब्द इति ॥
-
-
wadadi
१ 'श्चाखिलार्थ' इति क-पाठः । २-३ अनुष्टुप् । ४ 'चालोचनज्ञान ०' इति ङ-पाठः । ५ 'नयते' इति ङ-पाठः । ६ ' इहैव शङ्का०' इति ङ-पाठः । ७ 'भावादिति तस्य' इति ङपाठ: । ८ 'सुप्तादिबोधाबोधवदिति' इति ङ-पाठः ।