________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् ___३६५
(मूलम्) उत्पलत्वस्य विशेषपरिणामत्वान्नीलत्वस्यापि तत्त्वादेव कथं विशेषणविशेष्यभाव इति ?। उच्यते-उत्पलत्वस्य कथञ्चित् सत्त्वादिसमानपरिणामापृथग्भावात् तत्सामर्थ्यतः कथञ्चिद् विशेष्यत्वोप- ५ पत्तेः तथा शब्दस्वभावत्वाच अकल्पितशब्दार्थनीत्या कथञ्चित् तदभिधानादित्यलं प्रसङ्गेन ॥
एवमेकान्ताभिलाप्यमनुपपन्नमेव, तद्भावे शब्दार्थयोस्तादात्म्यापत्तेः । आह-न ह्यभ्युपगमा एव बाधायै भवन्ति, शब्दार्थयोहिं तादात्म्यमिष्यत एव, तत एव तत्प्रतीतेः, वृक्षत्वशिंशपात्ववत्, १० वृक्षत्वप्रतिपत्तिनान्तरीयका शिंशपात्वप्रतिपत्तिरित्यनयोस्तांदास्म्यम् । एवं शब्दप्रतिपत्तिनान्तरीयकैव अर्थप्रतिपत्तिरित्यनयोरपीदं
(खो० व्या०) चित्रनिवन्धनत्वादस्य । तथाहि-उत्पलं किं नीलमिति? । अत्राह परः-उत्पलत्वस्य विशेष परिणामत्वान्नीलत्वस्यापि तत्त्वादेव-विशेषपरिणामत्वादेव १५ कथं विशेषणविशेष्यभाव इति ? । एतदाशङ्कयाह-उच्यते । उत्पलत्वस्य कथञ्चित्-केनचित् प्रकारेण सत्त्वादिसमानपरिणामापृथग्भावात् कारणात् तत्सामर्थ्यतः-सत्त्वादिसमानपरिणामसामर्थ्यतः कथञ्चिद् विशेष्यत्वोपपत्तेः। तथा शब्दस्वभावत्वाच कारणात् । किमित्याह-अकल्पितशब्दार्थनीत्या-शब्दयुक्तिनीत्या कथञ्चित् तदभिधानात्-सत्त्वादिसमानपरिणामाभि-२० धानाद् विशेषणविशेष्यभाव इत्यलं प्रसङ्गेन, दिक्प्रदर्शनमात्रफलत्वात् प्रारम्भस्य ॥
एवं तावदेकान्तानभिलाप्यं वस्तु न घटते इत्यभिधीय एकान्ताभिलाप्यतामस्य निराकुर्वन्नाह-एवं-यथाऽनभिलाप्यं सामान्येन तथा एकान्ताभिलाप्यमप्यनुपपन्नमेव । कुत इत्याह-तद्भावे-एकान्ताभिलाप्यभावे । किमित्याहशब्दार्थयोस्तादात्म्यापत्तेः। आह परः-न ह्यभ्युपगमा एव बाधायै २५ भवन्ति । एतदेव स्पष्टयति-शब्दार्थयोः यस्मात् तादात्म्यमिष्यत एव । कुत इत्याह-तत एव-शब्दात् सकाशात् तत्प्रतीते:-अर्थप्रतीतेः । निदर्शनमाहवृक्षत्वशिंशपात्ववत् । एतद्भावनायैवाह-वृक्षत्वप्रतिपत्तिनान्तरीयका शिंशपात्वप्रतिपत्तिरिति कृत्वा अनयोः-वृक्षत्व-शिंशपात्वयोः । किमित्याह-तादात्म्यम् । एवं शब्दप्रतिपत्तिनान्तरीयकैव विकल्प-३०
१ तादात्म्यमिष्यते एव तत्प्रतीतेः बृक्षत्वमेव' इति क-पाठः। २ 'धानात् सर्वाभिधानात् सर्वादिसमानपरि ' इति ङ-पाठः। ३ 'एतद्भावनायाह' इति क-पाठः ।