________________
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम् )
वस्त्वभावप्रसङ्गादिति कथञ्चित् तदेकाधारत्वमनवद्यम् ॥ यचोक्तम्'अन्यापोहपक्षे स्वयमदोषः, एकस्यैव धर्मिणो व्यवच्छेदद्वयोप५ गृहीतस्य विकल्पबुद्धी प्रतिभासनात्' इत्यादि तदपि यत्किञ्चित्, 'विकल्पबुद्धिप्रतिभासस्यालम्बनाभावेन परमार्थतोऽसत्त्वात्' इत्यादिना विहितोत्तरत्वात् । तथाहि - अदस्तत्रै दम्पर्यम् । यदि तथैकानेकस्वभावाभावत एव चित्रा बुद्धिरिष्यते, ततस्तत्रापि 'नीलशब्दप्रयोगाद् बुद्धिप्रतिभासी धर्मी अनीलव्यावृत्तरूप एव प्रतिभासते, " १० इत्याद्युच्यमानं सविषयत्वेन घटते, तद्भावे च तेंदुबुद्धिवदर्थतथाभावेऽप्यदोष एव तचिन्त्रताभावे त्वनुत्तरविज्ञान इव निबन्धनाभावेन तत्कल्पनाऽभाव एवेति । एवं बाह्य एव विशेषणविशेष्यभावोपपत्तिरपि भावनीया । तथा हि-उत्पलं किं नीलमिति । अत्राह( खो० व्या० )
१५ अन्यथा - एवमनभ्युपगमे वस्त्वभावप्रसङ्गादिति भावितमसकृदिति एवं कथञ्चित् तदेकाधारत्वं- नीलोत्पलत्वयोरेकाधारत्वमनवद्यं - निर्दोषमुक्तवद् यथोदितद्रव्यसिद्धेरन्यथा तदयोगादिति ||
यचोक्तं पूर्वपक्षे' - 'अन्यापोहपक्षे त्वयमदोष:, एकस्यैव धर्मिणो व्यवच्छेदद्वयोपगृहीतस्य विकल्पबुद्धौ प्रतिभासनात्' इत्यादि, तदपि २० यत्किञ्चित् - असारम् । कथमित्याह - 'विकल्पबुद्धिप्रतिभासस्यालम्बनाभावेन परमार्थतोऽसत्त्वात्' इत्यादिना विहितोत्तरत्वादिति । इहैव निष्यन्दमाह तथाहीत्यादिना । तथाहीत्युपप्रदर्शने । अदः - एतत् तंत्र-उक्ते ऐदस्पर्यम्। यदि तथा - प्रतिभासरूपेण एकानेकस्वभावाभावत एव - परमार्थत एव चित्रा बुद्धिरिष्यते, ततः तत्रापि - बुद्धौ नीलशब्दप्रयोगाद् बुद्धि२५ प्रतिभासी धर्मी अनीलव्यावृत्तरूप एव प्रतिभासत इत्युच्यमानं सविषयत्वेन घटते, तद्भावे च - चित्रबुद्धिभावे च तद्बुद्धिवदिति निदर्शनं अर्थ तथाभावेऽपि - अर्थचित्रतायामपि सत्याम् । किमित्याह- अदोष एव । तच्चित्रताभावे तु बुद्धिचित्रताभावे पुनरनुत्तरविज्ञान इव तथागते निबन्धनाभावेन हेतुना तत्कल्पनाऽभाव एव - सामानाधिकरण्यकल्पनाऽभाव एव ३० इति । एवं बाह्य एव वस्तुनि विशेषणविशेष्यभावोपपत्तिरपि योजनीया,
३६४
[ चतुर्थः
१३५३ मे पृष्ठे | २ प्रेक्ष्यतां ३५४तमं पृष्ठं ३५५तमं च । ३ समीक्ष्यतां ३५३तमं पृष्ठ ३५४तमं च । ४ ' तद्वदर्थ' इति ग-पाठः । ५ 'भणितमस०' इति ङः पाठः । ६३५३ तमे पृष्ठे । ७ 'तत्रक्ति' (?) इति ङ-पाठः । ८' प्रयोगाद् बुद्धिरिष्यते ततः तत्रापि बुद्धौ नीलशब्दप्रयोगाद् बुद्धि०' इति क - पाठः ९ ' इत्यपि - एवमप्यभ्यु (?) मानं' इति ङ-पाठः ।