Book Title: Anekantajay patakakhyam Prakaranam Part 1
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 411
________________ अनैकान्तजयपताकाख्यं प्रकरणम् (मूलम् ) न च स्यात् प्रत्ययो लोके यः श्रोत्रा न प्रतीयते । शब्दाभेदेन सत्येवं सर्वः स्यात् परचित्तवित् ॥”” ५ इत्यादि । यचोक्तम्- 'नं चालोचनज्ञानमपि न शब्दाननुविद्धं तथाऽननुभवेऽपि सुप्तादिबोधवत् तत्सूक्ष्मभावोपपत्तेः, ऊर्द्ध तत्स्थूरभावात्' इत्यादि तदपि न नो बाधायै, तत्तदनुवेधेऽप्युक्तवत् शब्दार्थयोस्तादात्म्यायोगात् । न च सुप्तादिबोधः सूक्ष्मः सन्न'न्यूनातिरिक्ततद्भाव ऊर्द्ध स्थूरो भवति, एकान्तैकस्य तदन्यप्रति" बन्धकाभावेऽवस्था भेदानुपपत्तेः प्रतिबन्धकभावे च तत्कृतश्चैतन्य ३७६ २५ ( स्वो० व्या० ) त्याह-न स्यादन्यत्र बोधुस्तच्छ्रुतिः । उपपत्तिमाह-यद् बोद्धारं परित्यज्य - विहाय न बोधोऽन्यत्र गच्छति, तथाऽननुभवात् । न च स्यात् प्रत्ययो लोके कश्चित् । किंविशिष्ट इत्याह- यः श्रोत्रा - प्राणिना न प्रतीयते । केन हेतु१५ नेत्याह-- शब्दाभेदेन शब्द एव प्रत्यय इति कृत्वा । सत्येवम् - एवं सति सर्वः स्यात् श्रोता परचित्तवित् शब्दस्यैव चित्रत्वादित्यादि । यच्चोक्तं पूर्वपक्षे-'न चालोचनाज्ञानमपि न शब्दाननुविद्धं तथाऽननुभवेऽपि सुप्तादिबोधवत् तत्सूक्ष्म भावोपपत्तेः ऊर्द्ध तत्स्थूरभावात्' इत्यादि, तदपि किमि - > त्याह-न नः- नास्माकं बाधायै । कुत इत्याह- तत्तदनुवेधेऽपि तेन - शब्देन २० तदनुवेधेऽपि - योधानुवेधेऽपि उक्तवत् यथोक्तं तथा शब्दार्थयोः तादात्म्यायोगात्, अन्यचेत्यादिना निदर्शितमेतत् । दूषणान्तरमधिकृत्याह - न चेत्यादि । न च. सुप्तादिबोधः सूक्ष्मः सन्नन्यूनातिरिक्ततद्भावः - तावन्मात्र एव ऊर्द्ध स्थूरो भवति । कुत इत्याह- एकान्तैकस्य बोधरूपतया तदन्यप्रतिबन्धकाभावे कर्मणोऽभाव इत्यर्थः किमित्याह - अवस्थाभेदानुपपत्तेः प्रतिबन्धक ( विवरणम् ) (२४) कर्मणोऽभाव इत्यर्थ इति । अयमभिप्रायः - एकान्तैकस्वभावो बोधोऽ • भ्युपगम्यते, कर्म च तस्य प्रतिबन्धकारि नास्ति, अत एव कथं तस्य भवतां मते सूक्ष्माद्या अवस्था घटामदन्ति ? [1 १ अनुष्टुप् । २ ३६६तमे पृष्ठे । ५ 'कर्मणो भाव' इति क-पाठः । [ चतुर्थः पृष्ठे । ३ ' तथा लोचन०' इति क- पाठः । ४ ३६६तमे

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453