Book Title: Anekantajay patakakhyam Prakaranam Part 1
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 413
________________ अनेकान्तजयपताकाख्यं प्रकरणम् [चतुर्थः (मूलम्), प्रसङ्गात्' इत्यायनालोचिताभिधानम्, उपादानहेतोस्तद्धिकर्तुः असत्त्वात् तदितरस्य च तद्भेदत्वेन प्रकृतानुपयोगात् ॥ ५. किश्चालोचनाज्ञानगतः सूक्ष्मः शब्दः किं बोधात्मक उत तदतिरिक्तशब्दात्मकः ? । यदि बोधात्मका, कथमुच्यते-'ने चालोचनाज्ञानमपि न शब्दाननुविद्धम्', तज्ज्ञानमात्रत्वेन शब्दार्थानुपपत्तेः, आत्मनाऽऽत्माऽनुवेधाभिधानस्येत्थमयुक्तत्वात् ।। (खो० व्या०) १० सदा तद्भावादिप्रसङ्गात्' इत्यपि 'पूर्वपक्षवचनमनालोचिताभिधानम् । कुत इत्याह-उपादानहेतोर्बोधस्य तदृद्धिकर्तुः-बोधवृद्धिकर्तुरसत्त्वात् तदितरस्य च--अनुपादानहेतोः प्रतिबन्धकस्य कर्मणः तद्भेदत्वेन-उपादानभिन्नतया । किमित्याह-प्रकृतानुपयोगात्-स्थूरत्वानुपयोगादिति ॥ किश्वेत्यादिनाऽभ्युच्चयमाह-किञ्च आलोचनाज्ञानगतः कोऽसौ सूक्ष्मः १५शब्दो यः सिषाधयिषितः स किं बोधात्मक उत तदतिरिक्तशब्दात्मक:बोधातिरिक्तशब्दात्मक इत्यर्थः १ । किञ्चातः १ । उभयथाऽपि दोष इत्याह-यदि बोधात्मकोऽसौ ततः किमित्याह-ततः कथमुच्यते-न चालोचनाज्ञानमपि नशब्दाननुविद्धम् ? कथमभणनमस्येत्याह-तज्ज्ञानमात्रत्वेन प्रक्रमात् तस्य शब्दस्य बोधात्मकतया ज्ञानमात्रत्वेन हेतुना शब्दार्थानुपपत्तेः । अनुपपत्तिश्च २० आत्मनाऽऽत्मानुवेधाभिधानस्येत्थं-भिन्नवाचकापेक्षया अयुक्तत्वात् संद प्यतन्न चालोचनाज्ञानमपि न बोधानुविद्धमित्येव युक्तम् । न चैवं मणने फलमस्ति, विवादाभावादित्यभिप्रायः॥ (विवरणम्) (२१) सदप्येतन्न चालोचनाज्ञानमपि न बोधानुविद्धमित्येव युक्तमिति । २५ सदपि-विद्यमानमपि एतन्न चालोचनाज्ञानमपि न शब्दानुविद्धमित्यभिधानं न चालोचनाज्ञानमपि (न) बोधानुविद्धमित्यनेनैवोल्लेखेन युक्तं भणितुमिति । अयमत्र परमार्थः-यद्यालोचनाज्ञानगतः सूक्ष्मशब्दोऽबोधात्मक एव, तदा न युक्तमेवैतद १ द्रष्टव्यं ३६६ तमं पृष्ठं ३७६तमं च। २ 'मपि शब्दानुविद्धं' इति ग-पाठः। ३ 'त्मानः बोधाभिधान' इति क-पाठः। ४ ३६६-३६७तमपृष्टगतम् । ५ 'शब्दानुविद्धम्' इति क-पाठः। ६ तदप्येतन' इति ङ-पाठः। ७ 'सूक्ष्मः शब्दो' इति क-पाठः । ८'तदान' इति पाठो मास्ति च-प्रतो। ।

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453