Book Title: Anekantajay patakakhyam Prakaranam Part 1
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 418
________________ अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् ३८३ ब्रह्म शब्दाविषयो यदाह-अतः परं वाचो निवर्तन्ते' इत्याशङ्ख्य 'वाच्यवाचकभावप्रपश्चाभावतो न शब्दरूपाभावेन" इत्यादि, तदप्ययुक्तमेव, वाच्यवाचकभावप्रपञ्चरहितस्य शब्दरूपस्यानुपपत्तेः, ५ खवचनविरोधात्। तथाहि-वाच्यवाचकभावप्रपञ्चरहितं च शब्दरूपं चेति व्याहतमेतत् । न हि सद्रूपरहितं सत्त्वं नाम । अन्यच्च "अतः परं वाचो निवर्तन्ते” इतीयमपि बागेव । इयं चेत् तत्र प्रवर्तते, कथं वाच्यवाचकभावप्रपश्चाभावः । न चेत् प्रवर्तते इति, कथमपरवाचां निवृत्तिः ? । एवं च 'न खलु शब्द इन्द्रियाद्यभावे शब्द इत्य- १० गृह्यमाणः स्वसत्तां जहाति, अतो वाच्यवाचकभावातीतमिदमेव परं ब्रह्म 'इत्यपि व्युदस्तम् । ततश्च किमुच्यते-न कश्चिद् दोषः इति ? ननु दोष एव केवलः । तथाहि-यद्यपि शब्द इन्द्रियाद्यभावे शब्द इति न गृह्यते तथापि नासौ स्वसत्तां जहाति, तद्योग्यतोप (खो० व्या०) वाचो निवर्तन्ते' इति आशङ्कय 'वाच्यवाचकभावप्रपश्चाभावतो न शब्दरूपाभावेन' इत्यादि तदप्ययुक्तमेव । कुत इत्याह-वाच्यवाचकभावप्रपञ्चरहितस्य शब्दरूपस्यानुपपत्तेः । अनुपपत्तिश्च स्ववचनविरोधात् । एनमेवाह तथाहीत्यादिना । तथाहीत्युपप्रदर्शने । वाच्यवाचकभावः प्रपञ्चरहितं च शब्दरूपं चेति व्याहतमेतत् । न हि सद्रूपरहितं सत्त्वं २० नामेति निदर्शनम् । अन्यच्च "अतः परं वाचो निवर्तन्ते” इतीयमपिएवम्भूता वागेव । यदि नामैवं ततः किमित्याह-इयं चेत् वाक् तत्र-ब्रह्मणि प्रवर्तते, कथं वाच्यवाचकभावप्रपश्चाभावः। तत्र न चेत् प्रवर्तत इति इयं वागित्येतदाशयाह-कथमपरवाचां निवृत्तिः ? तत्र ब्रह्मणि प्रतिषेधाभावादिति भावः। एवं च 'न खलु शब्द इन्द्रियाद्यभावे शब्द इत्यगृह्यमाणः २५ खसत्तां जहाति, अतो वाच्यवाचकभावातीतमिदमेव परं ब्रह्म' इत्यपि पूर्वपक्षोदितं व्युदस्तम् । ततश्च किमुच्यते-न कश्चिद् दोष इति पूर्वपक्ष एव। ननु दोष एव केवलः, उक्तनीतेः। उपचयमाह-तथाहीत्यादि । तथाहीति पूर्ववत् । यद्यपि शब्द इन्द्रियाद्यभावे सति शब्द इति-एवं न गृह्यते तथापि नासौ-शब्दः स्वसत्तां जहाति । कुत इत्याह-तद्योग्यतोपपत्तेः, ३० . १ प्रेक्ष्यतां ३६८तमं पृष्टम् । २ समीक्ष्यतां ३६४तम पृष्ठं ३.६९तमं च । .. ३ दृश्यता ३६९तमं पृष्टम् । ४ 'आशयाह वाच्यः' इति ङ-पाठः । ५ ३६८ तमे पृष्ठे ३६९तमे च प्रोक्तम् ।

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453