Book Title: Anekantajay patakakhyam Prakaranam Part 1
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 420
________________ अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् ३८५ (मूलम् ) यतासालादिमदर्थप्रतिपत्तिरिति। आह च भाष्यकार:-"येनोचरितेन साला-लाङ्गल-ककुद-खुर-विषाणिनां सम्प्रत्ययो भवति स शब्दा, वर्णेभ्यस्तत्सम्प्रत्ययानुपपत्तेः” । एकाकारो ह्ययं नानेकेभ्यो वर्णेभ्यो भवितुमर्हति, अनेकेभ्योऽनेकप्रत्ययभावात् । अयं च स्फोटरूप एक एवेति युक्तोऽस्माद् यथोदितसम्प्रत्ययः । आह (खो० व्या०) प्रसिद्ध एष यतः सकाशात् सास्लादिमदर्थप्रतिपत्तिः-गवादिप्रतिपत्तिरिति । आह च भाष्यकार:-पतञ्जलि:-येनोच्चरितेन साला-लाल-ककुद-११ खुर-विषाणिनां-गवादीनां पदार्थानां सम्बन्धी सम्प्रत्ययो भवतिअविपरीतबोधो भवति स शब्दः। कुत एतदित्याह-वर्णेभ्य इत्यादि । वर्णेभ्यःगकारौकारविसर्जनीयादिभ्यः तत्सम्प्रत्ययानुपपत्तेः-गौरित्यादिशब्दसम्प्रत्ययानुपपत्तेः । अनुपपत्तिमेवाह-एकाकारो ह्ययं-गौरित्यादिशब्दसम्प्रत्ययः । यदि नामैवं ततः किमित्याह-नानेकेभ्यो वर्णेभ्यः-गकारादिभ्यो भवितु-१५ मर्हति । कुंत इत्याह-अनेकेभ्य आलम्बनेभ्यः । किमित्याह-अनेकप्रत्ययभावात् । अनेकप्रत्ययग्राह्यमेवानेकत्वम् । यदि पुनरेकप्रत्ययग्राह्यमपि स्यादेवं तर्खेकत्वमप्यनेकप्रत्ययग्राह्यमिति व्यवस्थाऽनुपपत्तिः । तदेवं यतोऽयमेकाकारः सम्प्रत्ययः स शब्द इत्यनन्तरोदितैदम्पर्यम् । एवमेकरूपैः शब्द इति स्थिते सत्याह-अयं चेत्यादि । अयं च-शब्दः स्फोटरूपः--अर्थविकाशरूप एक एवेति कृत्वा २० युक्तोऽस्मात्-स्फोटरूपशब्दात् प्रत्यक्षादेव "अर्थापत्तिगम्यात्" इति च केचित् , (विवरणम्) (२०) अर्थविकाशरूप एक एंवेति कृत्वेति । अयमत्राभिप्रायः स्फुट ति–व्यक्तो भवत्यस्मादर्थ इति स्फोट:-अर्थविकाश एव । अयं च त्रिष्वपि कालेष्व विचलितरूप एक एव । यथाहि-देवदत्तशरीरे प्रस्वेदबिन्दवो निमज्जन्ति उन्मज्जन्ति च; देवदत्त- २५ शरीरं त्वेकाकारं सर्वास्ववस्थासु । एवं स्फोटेऽपि सर्वदा एकरूपे गकारौकारादयो वर्णाः प्रवेदकल्पा एव, स तु तेभ्यो विलक्षणाकारोऽन्य एवेति । अयं च स्फोटः केषाश्चिन्मते 'श्रोतृप्रत्यक्षगम्यः, अन्येषां तु मतेऽर्थापत्त्यवसेयः । तथाहि-अस्ति कश्चित् स्फोटाख्यः पदार्थः, अर्थप्रकाशान्यथानुपपत्तेरिति ॥ १ 'चारितेन सता साना.' इति -पाठः। २ 'कुत इत्याह' इति पाठो नास्ति क-प्रतौ । ३ 'रूपशब्द' इति क-पाठः। ४ 'व्यक्तीभवति' इति क-पाठः। ५ 'रूपेण गकारी.' इति कपाठः। ६ 'श्रोत्रप्रत्यक्ष०' इति क-पाठः। अनेकान्त०४९

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453