Book Title: Anekantajay patakakhyam Prakaranam Part 1
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 409
________________ ३७४ अनेकान्तजयपताकाख्यं प्रकरणम् [चतुर्थः (मूलम् ) पत्तिनान्तरीयकैवार्थप्रतिपत्तिरित्यनयोरपीदं न्याय्यमिति त्वसुन्दरम्, अर्थस्य बोधभिन्नदेशतोपपत्तेः, तथाऽनुभवसिद्धत्वात् ५ तदुपलब्धावपि तदर्थप्रवृत्तिसिद्धेः। भ्रान्तिमात्रमेतन्न तत्त्वत इति चेत् किमत्र प्रमाणम् ? । तयोरेव तादात्म्यमिति चेत्, तदिदमसिद्धमसिद्धेन साध्यते । यत्किश्चिदेतत् । देशभेदेन तद्भेद एव प्रतीयत इति चेत्, न, तस्यापि तद्भेदत्वेन भेदकत्वायोगात् । न ह्यविशिष्टमम्भस्तदन्यस्य भेदकं भवति, न च कथश्चिद् भिन्नं विशेषणमन्त"रेण, विशिष्टता स्वरूपवैशिष्ट्यस्यापि अन्यतो देशभेदादिना विना योगादिति सूक्ष्मबुद्धिविषय एव । एवं च 'शब्दानुविद्धश्चाखिलोs. (स्त्रो० व्या०) पत्तिनान्तरीयकैवार्थप्रतिपत्तिरित्यनयोः शब्दार्थयोरिद-तादात्म्यं न्या व्यमिति तु-एतत् पुनरसुन्दरम् । कुत इत्याह-अर्थस्य-घटादेबोधभिन्न१५देशतोपपत्तेः, तथाऽनुभवसिद्धत्वात्-बोधाद् मिन्नदेशतयाऽर्थस्यानुभवसिद्धत्वात् , 'विभिन्नार्थग्रहणस्वभावसंवेदनवेदनादित्यर्थः । इहैवोपचयमाह-तदुपलब्धावपि-अर्थोपलब्धावपि सत्यां तदर्थ-अर्थार्थं प्रवृत्तिसिद्धेनैषार्थतद्वोधाभेदे च बोधे च शब्द इति भावनीयम् । भ्रान्तिमात्रमेतदर्थस्य बोधभिन्नदेशतादि, न तत्त्वतः। इति चेत्, एतदाशयाह-किमत्र-भ्रान्तिमात्रमेतदित्येतस्मिन् २० प्रमाणम् ? । तयोरेव-शब्दार्थयोः तादात्म्यं बोधशब्दभावेन । इति चेत्, एतदाशझ्याह-तदिदमसिद्धं बोधार्थयोस्तादात्म्यमसिद्धेन शब्दार्थतादाम्येन साध्यत इति कृत्वा यत्किञ्चिदेतत्-असारम् । देशभेदेन तद्भेद एव, प्रक्रमाच्छन्दात्मकार्थभेद एव प्रतीयते। इति चेत्, एतदाशङ्कयाह-न, तस्यापि देशभेदस्यापि तद्भेदत्वेन-शब्दात्मकार्थभेदत्वेन भेदकत्वायोगात्। एतदेव २५ दृष्टान्तेन भावयति । न ह्यविशिष्टमम्भः क्षारादिना तदन्यस्य-अम्भसो भेदकं भवति, उभयोस्तन्मात्रत्वात्, न च कथश्चित् केनचित् प्रकारेण तद्विशेषणोपयोगित्वलक्षणेन भिन्नं विशेषणं-देशादिकमन्तरेण-विना । विशिष्टताऽम्भसो भेदकस्य स्वरूपमेव विशिष्टमिति पक्षव्युच्छेदायाह-स्वरूपवैशिष्ट्य स्थापि, अन्यतः, अन्यस्याम्भस इति प्रक्रमः । देशभेदादिना-भेदकेन ३. विना योगादिति सूक्ष्मबुद्धिविषय एव विचारस्तदभावे द्वयोरप्यम्भसोरेकखापत्तेः । एवं च सति शब्दानुविद्धश्चाखिलोऽर्थावबोध इत्यनुभवः १ 'विच्छिन्नार्थः' इति ड-पाठः। २ 'शब्दा इति' ङ-पाठः ।

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453