Book Title: Anekantajay patakakhyam Prakaranam Part 1
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 407
________________ [ चतुर्थः ३७२ अनेकान्तजयपताकाख्यं प्रकरणम् (मूलम्) शब्दानुगतबोधसिद्धावपि न बोधाभिन्नदेशोऽर्थ इति कुतः शब्दाथेयोःतादात्म्यम् । यच्चोक्तम्-तत एव तत्प्रतीतेवृक्षत्वर्शिशपात्व५ वत्' इत्यादि तदप्ययुक्तम् , अत्रापि धर्मभेदनिबन्धनत्वादस्य । वृक्षत्व-शिंशपात्वे हि विशिष्टौ वस्तुधौं कथञ्चिद् भेदाभेदवृत्ती; नान्यथाऽनयोस्तादात्म्यम् । तथाहि-यदि वृक्षत्वमेव शिंशपात्वमिति धवाद्यभावप्रसङ्गः, तत्र वृक्षत्वस्य विद्यमानत्वात् तस्य च शिंशपात्वादिति । अथ विशिष्टं वृक्षत्वमेतत् , किमस्य विशेषण१० मिति चिन्त्यम् । ननु शिंशपात्वमेव, कथञ्चिदन्यत्, तर्हि तत् ततः, (खो० व्या०) शब्दानुगतबोधसिद्धावपि सत्यां किमित्याह-न बोधाभिन्नैदेशोऽर्थः अर्था(?)वाच्य इति-अस्माद्धेतोः कुतः शब्दार्थयोस्तादात्म्यम् ? नैवेत्यर्थः । यच्चोक्तम्-'तत एव तत्प्रतीतेः वृक्षत्वशिंशपात्ववत्' इत्यादि पूर्वपक्षे १५ तदप्ययुक्तम् । कुत इत्याह-अत्रापि-निदर्शने धर्मभेदनिबन्धनत्वादस्यतादात्म्यस्य । एतदेवाह-वृक्षत्व-शिंशपात्वे हि-यस्माद् विशिष्टौ वस्तुधर्मों वर्तेते कथञ्चिद् भेदाभेदवृत्ती इतरेतरव्याप्त्या, नान्यथाऽनयोः-वृक्षवशिंशपात्वयोः तादात्म्यम्, अनेकदोषप्रसङ्गात् । एतदेवाह तथाहीत्यादिना । तथाहीति पूर्ववत् । यदि वृक्षत्वमेव शिंशपात्वमिति-एवं तादात्म्य२० मिष्यते, ततः किमित्याह-धवाद्यभावप्रसङ्गः । कथमित्याह-तत्र-धवादौ वृक्षत्वस्य विद्यमानत्वात् तस्य च-वृक्षत्वस्य शिंशपात्वादिति । अथ विशिष्टं वृक्षत्वमेतत्-शिंशपात्वमित्येतदाशङ्कयाह-किमस्य-वृक्षत्वस्य विशेषणमिति चिन्त्यम्। ननु शिंशपात्वमेव विशेषणम् । एतदाशङ्कयाहकथञ्चित्-केनचित् प्रकारेण तद्विषयत्वोपयोगिना अन्यत् तर्हि तत्-शिंशपात्वं (विवरणम्) (२४) तद्विषयत्वोपयोगिनेति । सः-विशिष्टः खट्टाकरणादिविषयः-प्रवृत्तिगोचरो यस्य स तथा तस्य भावस्तद्विषयत्वम् , तद्विषयत्वेनोपयुज्यत इत्येवंशीलाः तद्विषयतोपयोगी प्रकारस्तेन । अन्यादृशो हि वृक्षत्वसामान्यस्योपयोगः छायाकारणानि, अन्यादृशश्च शिंशपात्वादेः खटाकरणादिरिति ॥ १३६५तमे पृछे । २'त्वविद्यः' इति क-पाठः । ३ 'देशाऽर्थवाच्य' इति ङ-पाठः । ४ ३६५तमे पृष्ठे। ५'तद्विषयत्वं' इत्यधिकः ख-पाठः। ६ 'छायाकरणादि अन्या०' इति क-पाठः । ७ 'सदाकारणादि.' इति ख-पाठः ।।

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453