Book Title: Anekantajay patakakhyam Prakaranam Part 1
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 405
________________ अनेकान्तजयपताकाख्यं प्रकरणम् [चतुर्थः भिधानात् नानयोरैक्यमेवेति नैवं 'शब्दब्रह्मपरिवर्तमानं जगत्" इति ऐदम्पर्यविरोधः, विजातीयपरिवर्तायोगात् इन्द्रियगम्येषु तथा५ऽदर्शनात् । न हि मृदम्भोरूपेण विपरिवर्तते, तद् वा तद्रूपेण, सकल लोकसिद्धमेतत्, अस्यान्यथात्वाभ्युपगमे प्रतीतिबाधा द्रव्यवर्गणाविजातीयपरावर्तस्यापि देशादिभेदनिबन्धनत्वात् निरवयवं च शब्दब्रह्म, सावयवत्वे चास्यापरनामा धर्मास्तिकायाद्यभ्युपगम एव (स्वो० व्या०) " अपृथग्भावाभिधानात् कारणात् नानयोरैक्यमिति कृत्वा नैवं शब्दब्रह्मपरिवर्तमानं जगदिति । ततः किमित्याह-ऐदम्पर्यविरोधः। कुत इत्याह-विजातीयपरिवर्तायोगात्; शब्दादर्थपरिवर्तो विजातीय इत्ययोगः । अयोगश्च इन्द्रियगम्येषु मृदादिषु तथाऽदर्शनात् । तदेवाह-न हि मृदम्भो. रूपेण विपरिवर्तते, तद् वा-अम्भो मृद्रूपेण । सकललोकसिद्धमेतत्-नात्र १५ विगानं अस्य-अनन्तरोदितस्य अन्यथात्वाभ्युपगमे सति प्रतीतिबाधा । तथाप्रतीतेरिति । द्रव्यवर्गणेत्यादि । द्रव्यवर्गणासु विजातीयपरावर्तः औदारिकादेवैक्रियादिरूप इति विग्रहः तस्यापि देशादिभेदनिबन्धनत्वात् न तत्रैकस्यैव भेदकमन्तरेण परिवर्तभेदः निरवयवं च शब्दब्रह्म, तथाऽभ्युपगमात् सावयवत्वे चास्य-ब्रह्मणः किमित्याह-अपरनामा सज्ञान्तरविशिष्टो २० धर्मास्तिकायाद्यभ्युपगम एव भेद्यभेदकभावोपपत्त्या विजातीयपरावर्तोपपत्तेः, (विवरणम्) (२०) धर्मास्तिकायाद्यभ्युपगम एवेति । यदि हि सावयवं ब्रह्माभ्युपगम्यते ब्रह्मवादिभिस्तदाऽस्मदभ्युपेतमेव पञ्चास्तिकाय[ज]मयं जगदङ्गीकृतं भवतीत्यर्थः ॥ - (२०) भेद्यभेदकभावोपपत्त्या विजातीयपरावर्तोपपत्तेरिति । तद् यथा२५ औदारिकादिवर्गणाप्रतिबद्धाः पुद्गला भेद्काश्च जीवधर्मास्तिकायादयः तेषां भावस्तथा तस्योपपत्तिः-घटना तया हेतुभूतया विजातीयपरावर्तस्य-औदारिकादिवर्गणानां वैक्रियादिवर्गणात्वेन परिणतिलक्षणस्योपपत्ते:-घटनात् । अयमत्र भावः-यदा हि सावयवं ब्रह्माभ्युपगम्यते ब्रह्मवादिभिस्तदा केचित् तदवयवा भेद्याः केचिश्च भेदका इति घटत एव विजातीयपरावर्तः, परमेवं सति जैनाभ्युपगम एव समाश्रितो ३० भवति, धर्मास्तिकायाद्यवयवयुक्तत्वात् तन्मते त्रिलोकस्येति ॥ १ दृश्यतां ३६८तम पृष्ठम् । २ 'मदाभारूपेण विपरि०' इति क-पाठश्चिन्त्यः । ३ 'परिवर्तस्यापि' इति क-पाठः । ४ 'तथैव प्रतीते.' इति -पाठः । ५ 'कायं जगद' इति क-पाठः ।

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453