Book Title: Anekantajay patakakhyam Prakaranam Part 1
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 403
________________ अनेकान्तजयपताकाख्यं प्रकरणम् [चतुर्थः (मूलम् ) वत् तदवस्थाभेदहेतुत्वमेव पाटनादीनां सद्भावे न कश्चिदक्षतवदनः स्यादिति यथोक्तदोषाभावः ॥ ५ एवं शब्दब्रह्मपरिवर्तमानं जगत् । कथं तर्हि परं ब्रह्म शब्दा. विषयो यदाह-"अतः परं वाचो निवर्तन्ते" इत्यादि ?। उच्यतेवाच्यवाचकभावप्रपञ्चाभावतः, न शब्दरूपाभावेन। न खल शब्द इन्द्रियाद्यभावे शब्द इत्यगृह्यमाणः स्वसत्तां जहाति, अतो वाच्य (खो० व्या०) १० यत्नतः-यत्नेन क्षुरिकादेर्मुखावेशः आवेशः-प्रवेशस्तस्मिंस्तदभावः-पाटनाद्यभाव इति विग्रहः तद्वत् तदवस्थाभेदहेतुत्वमेव-क्षुरिकाद्यवस्थाभेदहेतुत्वमेव पाटनादीनां न क्षुरिकादिमानहेतुत्वं तद्भावे-तत्सत्तामात्रनिबन्धनत्वे पाटनादेः न कश्चिदक्षतवदनः स्यादिति भावनीयम्, इति-एवं यथोक्तदोषाभावः शब्दार्थयोस्तादात्म्येऽपि तद्विशेषनिबन्धनत्वात् पाटनादेरिति गर्भः ॥ १५ एवं शब्दब्रह्मपरिवर्तमानं जगदिति तत्त्वम् । कथं तर्हि परं ब्रह्म शब्दाविषयो गीयते, यदाह भाष्यकारः-"अतः परं वाचो निवतन्ते" इत्यादि ? । प्रणवादूर्ध्वं वानिवृत्तिरुक्ता, न ब्रह्मनिवृत्तिः । एतदाशक्याहउच्यते-वाच्यवाचकभावप्रपञ्चाभावतो वाचो निवर्तन्ते, न शब्द रूपाभावेन । एतद्भावनायैवाह-न खल्वित्यादि । न खलु शब्द इन्द्रिया२० द्यभावे शब्द इत्यगृह्यमाणः सन् स्वसत्तां जहाति । किं तर्हि ? शब्द (विवरणम्) (१०) यत्नतः-यत्नेनेति । अयमन्त्राशयः-यदा कश्चित् कुशलः पुमान् मन्त्रादिना स्तम्भितसामर्थ्या क्षुरिकां विधाय मुखे प्रावेशयति, एवमेव मुखपार्थप्रदेशात् स्पृशन् प्रक्षिपति, तदा तस्य न भवत्येव वदनविदारणमिति ।। २५ (१३) न कश्चिदक्षतवदनः स्यादिति । यदि हि सत्तामात्रेणैव क्षुरिका वदनच्छेदनक: स्यात् तदाऽव्यापारिताऽपि सती सकलप्राणिमुखपाटनपट्टी भवेदिति ॥ (१७) प्रणवादूर्व वाग्निवृत्तिरुक्तति । यदा हि योगी परमं ब्रह्म ध्यातुमारभते, तदा क्रमेण तद्ध्यानमापूरयन् तद्गोचरं मत्रादिशब्दं संहरन् तावत् संहरति यावत् ॐकारमात्रध्यानावस्थो जातः । ततोऽपि दृढतरप्रयत्नात् सर्ववायुनिरोध ॐकार३० मपि निरुणद्धि । एवं च यदि शब्दब्रह्मपरिवर्तमानं जगत् तदा सर्वशब्दनिरोधे ब्रह्मणोऽपि निरोधः स्यादिति ॥ १'परिविवर्तमात्र' इति क-पाठः। २ 'परब्रह्मः' इति क-पाठः। ३ 'बन्धनत्वेन पाटनादेः' इति -पाठः।

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453