Book Title: Anekantajay patakakhyam Prakaranam Part 1
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 401
________________ अनेकान्तजयपताकाख्यं प्रकरणम् [ चतुर्थः ( मूलम् ) न्याय्यम्, शब्दानुविद्धवाखिलोऽर्थावबोध इत्यनुभवः प्राणभृताम्, तदभावे बोधानुपपत्तेरिति । आह च शब्दार्थतत्त्ववित्"वागरूपता चेदुत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥' न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्व शब्देन जायते ॥ * ३६६ इत्यादि । न चालोचनाज्ञानमपि शब्दाननुविद्धम्, तथाऽननुभवेऽपि " सुप्तादिबोधवत् तत्सूक्ष्मभावोपपत्तेः, ऊर्द्ध तत्स्थूरभावात् । न ( स्वो० व्या० ) ज्ञानेन अर्थप्रतिपत्तिरित्यनयोरपि-शब्दार्थयोरिदं तादात्म्यं न्याय्यम् । एतत्स्पष्टनायैवाह - शब्दानुविद्धश्चाखिलोऽर्थावबोध इति - एवमनुभवः प्राणभृतां सर्वेषामेव, तदभावे - शब्दाभावे बोधानुपपत्तेरिति । आह् १५च शब्दार्थतत्ववित्-भर्तृहरिः- वाररूपता चेदुत्क्रामेत्-यायात् अबबोधस्य । किंविशिष्टा ? शाश्वती - नित्या । किं स्यादित्याह-न प्रकाशः प्रकाशेत, न ज्ञानं तिष्ठेदित्यर्थः । न चालोचनाज्ञानमप्यनयाऽननुविद्धमित्याहसा हि प्रत्यवमर्शिनी । न चासत्या एव प्रत्यवमर्शास्तथा न सोऽस्ति प्रत्यय:अवबोधो लोके यः शब्दानुगमाहते - शब्दानुगमं विना अनुविद्धमिव ज्ञानं २० सर्व शब्देन जायत इति प्रतिपत्तिगोचरतां 'नीयते । तत्त्ववस्तु तच्छब्दात्मकमेव इत्यादि अन्यदपि गृह्यते । इहैवाशङ्कान्तरापोहायाह-न चालोचनाज्ञानमपि - निर्विकल्पकत्वाभिमतं शब्दाननुविद्धम्, किन्त्वनुविद्धमेव । तथाऽननुभवेऽपि ष्टतयाऽननुभवेऽपि सति सुप्तादिबोधवदिति निदर्शनम्, नायमपि स्पष्टतया अनुभूयत इति सिद्धमेतत् । तत्सूक्ष्मभावोपपत्तेः२५ शब्द सूक्ष्मभावोपपत्तेरुपपत्तिश्च ऊर्द्ध तत्स्थूर भावात् तस्य शब्दस्य स्थूरभावात् तस्मात् सुप्तादिबोधवदिति निदर्शनेऽपि तत्स्थूरभावः सिद्ध एव । न चासौ( विवरणम् ) (२३) सुप्तादिबोधवदिति । सुप्रस्य सतो यो बोधोऽनात्मरूप: । 'आदि' शब्दादुन्मत्तादिबोधग्रहः । ततः सुप्तादिबोधे यो बोधो बोधप्रतिबद्ध एव व्यापारस्तद्वत् । ३० यथाहि सुप्रादिज्ञानेषु सूक्ष्मो बोधः, एवमालोचनज्ञानेऽपि सूक्ष्मः शब्द इति ॥ - - wadadi १ 'श्चाखिलार्थ' इति क-पाठः । २-३ अनुष्टुप् । ४ 'चालोचनज्ञान ०' इति ङ-पाठः । ५ 'नयते' इति ङ-पाठः । ६ ' इहैव शङ्का०' इति ङ-पाठः । ७ 'भावादिति तस्य' इति ङपाठ: । ८ 'सुप्तादिबोधाबोधवदिति' इति ङ-पाठः ।

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453