Book Title: Anekantajay patakakhyam Prakaranam Part 1
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 399
________________ अनेकान्तजयपताकाख्यं प्रकरणम् (मूलम् ) वस्त्वभावप्रसङ्गादिति कथञ्चित् तदेकाधारत्वमनवद्यम् ॥ यचोक्तम्'अन्यापोहपक्षे स्वयमदोषः, एकस्यैव धर्मिणो व्यवच्छेदद्वयोप५ गृहीतस्य विकल्पबुद्धी प्रतिभासनात्' इत्यादि तदपि यत्किञ्चित्, 'विकल्पबुद्धिप्रतिभासस्यालम्बनाभावेन परमार्थतोऽसत्त्वात्' इत्यादिना विहितोत्तरत्वात् । तथाहि - अदस्तत्रै दम्पर्यम् । यदि तथैकानेकस्वभावाभावत एव चित्रा बुद्धिरिष्यते, ततस्तत्रापि 'नीलशब्दप्रयोगाद् बुद्धिप्रतिभासी धर्मी अनीलव्यावृत्तरूप एव प्रतिभासते, " १० इत्याद्युच्यमानं सविषयत्वेन घटते, तद्भावे च तेंदुबुद्धिवदर्थतथाभावेऽप्यदोष एव तचिन्त्रताभावे त्वनुत्तरविज्ञान इव निबन्धनाभावेन तत्कल्पनाऽभाव एवेति । एवं बाह्य एव विशेषणविशेष्यभावोपपत्तिरपि भावनीया । तथा हि-उत्पलं किं नीलमिति । अत्राह( खो० व्या० ) १५ अन्यथा - एवमनभ्युपगमे वस्त्वभावप्रसङ्गादिति भावितमसकृदिति एवं कथञ्चित् तदेकाधारत्वं- नीलोत्पलत्वयोरेकाधारत्वमनवद्यं - निर्दोषमुक्तवद् यथोदितद्रव्यसिद्धेरन्यथा तदयोगादिति || यचोक्तं पूर्वपक्षे' - 'अन्यापोहपक्षे त्वयमदोष:, एकस्यैव धर्मिणो व्यवच्छेदद्वयोपगृहीतस्य विकल्पबुद्धौ प्रतिभासनात्' इत्यादि, तदपि २० यत्किञ्चित् - असारम् । कथमित्याह - 'विकल्पबुद्धिप्रतिभासस्यालम्बनाभावेन परमार्थतोऽसत्त्वात्' इत्यादिना विहितोत्तरत्वादिति । इहैव निष्यन्दमाह तथाहीत्यादिना । तथाहीत्युपप्रदर्शने । अदः - एतत् तंत्र-उक्ते ऐदस्पर्यम्। यदि तथा - प्रतिभासरूपेण एकानेकस्वभावाभावत एव - परमार्थत एव चित्रा बुद्धिरिष्यते, ततः तत्रापि - बुद्धौ नीलशब्दप्रयोगाद् बुद्धि२५ प्रतिभासी धर्मी अनीलव्यावृत्तरूप एव प्रतिभासत इत्युच्यमानं सविषयत्वेन घटते, तद्भावे च - चित्रबुद्धिभावे च तद्बुद्धिवदिति निदर्शनं अर्थ तथाभावेऽपि - अर्थचित्रतायामपि सत्याम् । किमित्याह- अदोष एव । तच्चित्रताभावे तु बुद्धिचित्रताभावे पुनरनुत्तरविज्ञान इव तथागते निबन्धनाभावेन हेतुना तत्कल्पनाऽभाव एव - सामानाधिकरण्यकल्पनाऽभाव एव ३० इति । एवं बाह्य एव वस्तुनि विशेषणविशेष्यभावोपपत्तिरपि योजनीया, ३६४ [ चतुर्थः १३५३ मे पृष्ठे | २ प्रेक्ष्यतां ३५४तमं पृष्ठं ३५५तमं च । ३ समीक्ष्यतां ३५३तमं पृष्ठ ३५४तमं च । ४ ' तद्वदर्थ' इति ग-पाठः । ५ 'भणितमस०' इति ङः पाठः । ६३५३ तमे पृष्ठे । ७ 'तत्रक्ति' (?) इति ङ-पाठः । ८' प्रयोगाद् बुद्धिरिष्यते ततः तत्रापि बुद्धौ नीलशब्दप्रयोगाद् बुद्धि०' इति क - पाठः ९ ' इत्यपि - एवमप्यभ्यु (?) मानं' इति ङ-पाठः ।

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453