Book Title: Anekantajay patakakhyam Prakaranam Part 1
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 397
________________ अनेकान्तजयपताकाख्यं प्रकरणम् [चतुर्थः (मूलम्) च तथाऽभिधानात् इति । न चेह 'नीलोत्पलशब्दयोरेकं वा वस्तुवाच्यं स्यादनेकं वा इति विकल्पोक्तदोषसम्भवः, केवलोभयपक्षविविक्तस्य ५जात्यन्तरात्मकस्यैकानेकस्य वाच्यत्वात्, तत्र च केवलोभयपक्षगतदोषानुपपत्तेः अतदात्मकत्वात् , तथापि तत्तदापादनेऽतिप्रसङ्गा, येन केनचिद् दुष्टेन विश्वस्य दुष्टतापत्तेरिति यत्किञ्चिदेतत् । 'नीलशब्दो नीलगुणविशिष्टं द्रव्यमाह' इत्यादि तु यदुक्तं तदनभ्युपगमादेव न नः क्षतिमावहति । न खलु जैनैवैशेषिकैरिव द्रव्य-गुण-जातयो १० भिन्ना एवेष्यन्ते । किं तर्हि ? कथञ्चित् । न च निरंशमेव द्रव्यम् , अपि त्वेकानेकस्वभावम् । तत्र चोक्तवद् दोषाभावः। तथाहिनीलविशेषपरिणामात् कथश्चिदभिन्नसत्त्वादिसमानपरिणामाभि (स्वो० व्या०) परिकरस्य तथाऽभिधानात्-याथात्म्येनाभिधानादिति । न चेह-अनन्तरोदिते १५ तत्त्वे नीलोत्पलशब्दयोरेकं वा वस्तुवाच्यं स्यादनेकं वा इति विकल्पोक्तदोषसम्भवः । कुत इत्याह-केवला-इतरेतरनिरपेक्षौ, केवलौ च तौ उभयपक्षौ च, एकं वा वस्तुवाच्यं स्यादनेक वेत्युभयपक्षौ आभ्यां विविक्तस्य जात्यन्तरात्मकस्यैकानेकस्य वाच्यत्वात्, तत्र च-जात्यन्तरे केवलोभय पक्षगतदोषानुपपत्तेः, 'यत्किञ्चिदेतत्' इति योगः। अनुपपत्तिश्च अतदात्मक२०त्वात्-केवलोभयपक्षानात्मकत्वात् जात्यन्तरस्य, तथापि-एवमप्यतदात्मकत्वेऽपि जात्यन्तरस्य तत्तदापादने तस्य-जात्यन्तरस्य तदापादने-केवलोभयपक्षदोषापादने। किमित्याह-अतिप्रसङ्गः। कथमित्याह-येन केनचिद् दुष्टेन विश्वस्य-जगतो दुष्टतापत्तेरिति-एवं यत्किञ्चिदेतत्-अनन्तरोदितम् । तथा नीलशब्दो नीलगुणविशिष्टं द्रव्यमाहेत्यादि तु यदुक्तं पूर्वपक्षे तदनभ्युपगमादेव २५ कारणात् न न:-नास्माकं क्षतिमावहति-पीडां प्रापयति । एतदेवाह-न खलु जैनैवैशेषिकैरिव द्रव्य-गुण-जातयो भिन्ना एवेष्यन्ते। किं तर्हि ? कथचिद् भिन्ना इति । न च निरंशमेव द्रव्यं जैनैवैशेषिकैरिवेष्यते; अपि त्वेकानेकखभावम् । तत्र च-एवम्भूते द्रव्ये उक्तवत्-यथोक्तं तथोक्तदोषाभावः। तथाहि-नीलविशेषपरिणामात् सकाशात् केथश्चिदभिन्नश्वासौ सत्त्वादि १ दृश्यता ३५२तम पृष्ठम् । २ ३५३तमे पृष्ठे । ३ 'पक्षोक्तदोषा.' इति ङ-पाठः । ४ ३५३तमे पृष्ठे। ५ 'कथञ्चिद् भिन्नः' इति उ-पाठः।।

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453