Book Title: Anekantajay patakakhyam Prakaranam Part 1
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 404
________________ अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुत्तम् ३६९ (मूलम्) वाचकभावातीतमिदमेव परं ब्रह्मेति न कश्चिद् दोषः । अत्रीच्यते'यत्किञ्चिदेतत् , अविचारितरमणीयत्वात् । तत्र यत् तावदुक्तम्-'न यभ्युपगमा एव बाधायै भवन्ति' तदसत् , असदभ्युपगमस्य बाधा- ५ योपलब्धेः चौराद्यभ्युपगमस्य विद्वन्मध्ये बाधाफलत्वात्, न हि दृष्टेsनुपपन्नं नाम । स्यादेतदसद्विषयोऽसाविति युक्तं बाधाफलत्वमस्य; न चैवं शब्दार्थयोस्तादात्म्याभ्युपगम उक्तनीतेस्तन्न बाधाफलस्व. मस्य, न, शब्दार्थयोर्हि तादात्म्यमिष्यत एव इत्यस्यैवायोगात्, शब्दार्थानुपपत्तेः। तथाहि-शब्दार्थयोस्तादात्म्यमिति कोऽर्थः । यदि तदात्मनो वस्तादात्म्यम्, एवं तर्हि तौ द्वावपीष्टावेवापृथग्भावा (स्वो० व्या०) एवासौ तत्त्वतो यदि नाम न गृह्यते अतो वाच्यवाचकभावातीतमिदमेवशब्दब्रह्म परं ब्रह्मेति-एवं न कश्चिद् दोष इति पूर्वपक्षः । एतदाशङ्कयाह मूल- , सिद्धान्तवादी-अत्रोच्यते-यत्किञ्चित्-असारमेतत्-अनन्तरोदितम् । कुत १५ इत्याह-अविचारितरमणीयत्वात्। एतदेवोपदर्शयन्नाह-तत्र यत् तावदुक्तमित्यादि । किमुक्तमित्याह-'न ह्यभ्युपगमा एवं बाधायै भवन्ति । तेदसत्-अशोभनम् । कुत इत्याह-असदभ्युपगमस्य लोके बाधायोपलब्धेः । एतदेव भावयति-चौराद्यभ्युपगमस्य विद्वन्मध्ये-पण्डितसाधुमध्ये बाधाफलत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-न हि दृष्टेऽनुपपन्नं नाम । २० दृश्यते च विद्वन्मध्ये चौराद्यभ्युपगमो बाधाफलः । स्यादेतदसद्विषयोऽसौ-चौराघभ्युपगम इति युक्तं बाधाफलत्वमस्य । न चैवं शब्दार्थयोस्तादात्म्याभ्युपगमः असद्विषयः, उक्तनीतेहेतोः, तत्-तस्मात् न बाधाफलत्वमस्य । एतदाशङ्याह-न-न । किं तर्हि ? अस्त्येव बाधाफलत्वम् । कुत इत्याह-शब्दार्थयोर्हि तादात्म्यमिष्यते एव इत्यस्यैव-उक्तनीतिवाक्यस्य अयोगात् । २५ अयोगश्च शब्दार्थानुपपत्तेः । एनामेवाह--तथाहि-शब्दार्थयोस्तादात्म्य. मिति कोऽर्थः अस्य शब्दस्येति ?। यदि तदात्मनो:-शब्दार्थात्मनोर्भाव:सत्ता तादात्म्यम्, एवं तर्हि तौ द्वावपि-शब्दार्थों इष्टावेव-अभ्युपगतावेव १ 'यत्किञ्चिदेतदिति विचारित.' इति क-पाठश्चिन्त्यः । २ ३६५तमे पृष्ठे। ३ “पने नाम इति क-पाठः । ४ 'षयो वासाविति' इति ग-पाठः। ५ 'एतदसत्' इति उ-पाठः । ६ 'फलम्' इति हु-पाठः। ७ 'एवेत्यसौ चोवोक्तः' इति क-पाठः । . अनेकान्त०४७

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453