Book Title: Anekantajay patakakhyam Prakaranam Part 1
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 400
________________ अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् ___३६५ (मूलम्) उत्पलत्वस्य विशेषपरिणामत्वान्नीलत्वस्यापि तत्त्वादेव कथं विशेषणविशेष्यभाव इति ?। उच्यते-उत्पलत्वस्य कथञ्चित् सत्त्वादिसमानपरिणामापृथग्भावात् तत्सामर्थ्यतः कथञ्चिद् विशेष्यत्वोप- ५ पत्तेः तथा शब्दस्वभावत्वाच अकल्पितशब्दार्थनीत्या कथञ्चित् तदभिधानादित्यलं प्रसङ्गेन ॥ एवमेकान्ताभिलाप्यमनुपपन्नमेव, तद्भावे शब्दार्थयोस्तादात्म्यापत्तेः । आह-न ह्यभ्युपगमा एव बाधायै भवन्ति, शब्दार्थयोहिं तादात्म्यमिष्यत एव, तत एव तत्प्रतीतेः, वृक्षत्वशिंशपात्ववत्, १० वृक्षत्वप्रतिपत्तिनान्तरीयका शिंशपात्वप्रतिपत्तिरित्यनयोस्तांदास्म्यम् । एवं शब्दप्रतिपत्तिनान्तरीयकैव अर्थप्रतिपत्तिरित्यनयोरपीदं (खो० व्या०) चित्रनिवन्धनत्वादस्य । तथाहि-उत्पलं किं नीलमिति? । अत्राह परः-उत्पलत्वस्य विशेष परिणामत्वान्नीलत्वस्यापि तत्त्वादेव-विशेषपरिणामत्वादेव १५ कथं विशेषणविशेष्यभाव इति ? । एतदाशङ्कयाह-उच्यते । उत्पलत्वस्य कथञ्चित्-केनचित् प्रकारेण सत्त्वादिसमानपरिणामापृथग्भावात् कारणात् तत्सामर्थ्यतः-सत्त्वादिसमानपरिणामसामर्थ्यतः कथञ्चिद् विशेष्यत्वोपपत्तेः। तथा शब्दस्वभावत्वाच कारणात् । किमित्याह-अकल्पितशब्दार्थनीत्या-शब्दयुक्तिनीत्या कथञ्चित् तदभिधानात्-सत्त्वादिसमानपरिणामाभि-२० धानाद् विशेषणविशेष्यभाव इत्यलं प्रसङ्गेन, दिक्प्रदर्शनमात्रफलत्वात् प्रारम्भस्य ॥ एवं तावदेकान्तानभिलाप्यं वस्तु न घटते इत्यभिधीय एकान्ताभिलाप्यतामस्य निराकुर्वन्नाह-एवं-यथाऽनभिलाप्यं सामान्येन तथा एकान्ताभिलाप्यमप्यनुपपन्नमेव । कुत इत्याह-तद्भावे-एकान्ताभिलाप्यभावे । किमित्याहशब्दार्थयोस्तादात्म्यापत्तेः। आह परः-न ह्यभ्युपगमा एव बाधायै २५ भवन्ति । एतदेव स्पष्टयति-शब्दार्थयोः यस्मात् तादात्म्यमिष्यत एव । कुत इत्याह-तत एव-शब्दात् सकाशात् तत्प्रतीते:-अर्थप्रतीतेः । निदर्शनमाहवृक्षत्वशिंशपात्ववत् । एतद्भावनायैवाह-वृक्षत्वप्रतिपत्तिनान्तरीयका शिंशपात्वप्रतिपत्तिरिति कृत्वा अनयोः-वृक्षत्व-शिंशपात्वयोः । किमित्याह-तादात्म्यम् । एवं शब्दप्रतिपत्तिनान्तरीयकैव विकल्प-३० १ तादात्म्यमिष्यते एव तत्प्रतीतेः बृक्षत्वमेव' इति क-पाठः। २ 'धानात् सर्वाभिधानात् सर्वादिसमानपरि ' इति ङ-पाठः। ३ 'एतद्भावनायाह' इति क-पाठः ।

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453