Book Title: Anekantajay patakakhyam Prakaranam Part 1
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 398
________________ स्वोपज्ञव्याख्यामुनिचन्द्रीय विवरणयुतम् ( मूलम् ) धानेऽपि नीलशब्देन तस्यैव कथञ्चिदुत्पलत्वादिविशेषपरिणामाभेदित्वस्य तेनैवानभिधानात् तत्तत्स्वभावत्वात्, तदभिधानाय उत्पलशब्दस्यापि कथञ्चित् तत्रैव प्रवृत्तिः, अन्यथा तदनभि ५ धानात् । न चैवमनयोः पर्यायता, कथञ्चित् प्रवृत्तिनिमित्तभेदात्, तद्भावेऽपि तदभ्युपगमेऽतिप्रसङ्गात् । तथोपाधिभेदाद् विशेष्य भेदेऽपि च न वैयधिकरण्यमेव, सर्वथा भेदानभ्युपगमात्, तत्तत्समानपरिणामत्वात्, तत्स्वभावतया तथाप्रतीतेः, अन्यथा ( स्वो० व्या० ) समानपरिणामश्च तस्य अभिधानेऽपि सति नीलशब्देन । किमित्याहतस्यैव सत्त्वादिसमानपरिणामस्य कथञ्चिदुत्पलत्वादिविशेषपरिणामाभेदित्वस्य तेनैव - नीलशब्देन अनभिधानात् कारणात् । अनभिधानं च तत्तत्स्वभावत्वात् तयोः - कथञ्चिदुत्पलत्वादिविशेषपरिणामाभेदित्व नीलशब्दयोः तत्स्वभावत्वात् - अनभिधेयानभिधानखभावत्वात् तदभिधानाय - अधिकृताभेदि - १५ त्वाभिधानाय । किमित्याह - उत्पलशब्दस्यापि कथञ्चित् - केनचित् प्रकारेण तत्रैव - अधिकृतसत्त्वादिसमानपरिणामे प्रवृत्तिः, अन्यथा - एवमनभ्युपगमे तदनभिधानात् - अधिकृतादिभेदित्वा (१) नभिधानात् । न चैवमनयोः, प्रक्रमान्नीलोत्पलशब्दयोः पर्यायता । कुत इत्याह- कथञ्चित् प्रवृत्तिनिमित्तभेदात् तद्भावेऽपि कथञ्चित् प्रवृत्तिनिमित्तभेदभावेऽपि तदभ्युपगमे - पर्यायताऽभ्युपगमे अतिप्रसङ्गात्-घटपटादिशब्दानामपि पर्यायतापत्तेः । तथोपाधिभेदात् नीलोत्पलविशेषणभेदेन विशेष्य भेदेऽपि च- सत्त्वादिसमान परिणामभेदेऽपि च किमित्याह-न वैयधिकरण्यमेव नीलोत्पलाख्यजातिगुणयोः । कुत इत्याह- सर्वथा भेदानभ्युपगमात् सत्त्वादिसमानपरिणामस्य । अनभ्युपगमश्च तत्तत्समानपरिणामत्वात् तस्य - सत्त्वादिसमानपरिणामस्य तत्समानपरिणामत्वात् - नीलो - २५ त्पलत्वसमान परिणामत्वात् तत्स्वभावतया - नीलोत्पलत्वसमानपरिणामस्वभावतया तथाप्रतीतेः, नीलमुत्पलमिति द्रव्यप्रतीतेः । इत्थं चैतदङ्गीकर्तव्यमित्याह( विवरणम् ) अधिकारः ] ३६३ (१८) अधिकृततत्त्वा ( ? ) नभिधानादिति । अधिकृतं यत् तत्त्वं- नीलत्वस्योत्पलत्वेन सह अभेदित्वं तस्यानभिधानात् ॥ १ 'प्रसङ्गः' । ' तथो०' इति क- पाठः । २ 'कृतादित्वा०' इति ङ-पाठः । ३ 'नीलोत्पलयोरेकाधारत्वसमान०' इति ङ-पाठः । ૧૦ ३०

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453