________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[चतुर्थः (मूलम्) च तथाऽभिधानात् इति । न चेह 'नीलोत्पलशब्दयोरेकं वा वस्तुवाच्यं स्यादनेकं वा इति विकल्पोक्तदोषसम्भवः, केवलोभयपक्षविविक्तस्य ५जात्यन्तरात्मकस्यैकानेकस्य वाच्यत्वात्, तत्र च केवलोभयपक्षगतदोषानुपपत्तेः अतदात्मकत्वात् , तथापि तत्तदापादनेऽतिप्रसङ्गा, येन केनचिद् दुष्टेन विश्वस्य दुष्टतापत्तेरिति यत्किञ्चिदेतत् । 'नीलशब्दो नीलगुणविशिष्टं द्रव्यमाह' इत्यादि तु यदुक्तं तदनभ्युपगमादेव न नः क्षतिमावहति । न खलु जैनैवैशेषिकैरिव द्रव्य-गुण-जातयो १० भिन्ना एवेष्यन्ते । किं तर्हि ? कथञ्चित् । न च निरंशमेव द्रव्यम् ,
अपि त्वेकानेकस्वभावम् । तत्र चोक्तवद् दोषाभावः। तथाहिनीलविशेषपरिणामात् कथश्चिदभिन्नसत्त्वादिसमानपरिणामाभि
(स्वो० व्या०) परिकरस्य तथाऽभिधानात्-याथात्म्येनाभिधानादिति । न चेह-अनन्तरोदिते १५ तत्त्वे नीलोत्पलशब्दयोरेकं वा वस्तुवाच्यं स्यादनेकं वा इति विकल्पोक्तदोषसम्भवः । कुत इत्याह-केवला-इतरेतरनिरपेक्षौ, केवलौ च तौ उभयपक्षौ च, एकं वा वस्तुवाच्यं स्यादनेक वेत्युभयपक्षौ आभ्यां विविक्तस्य जात्यन्तरात्मकस्यैकानेकस्य वाच्यत्वात्, तत्र च-जात्यन्तरे केवलोभय
पक्षगतदोषानुपपत्तेः, 'यत्किञ्चिदेतत्' इति योगः। अनुपपत्तिश्च अतदात्मक२०त्वात्-केवलोभयपक्षानात्मकत्वात् जात्यन्तरस्य, तथापि-एवमप्यतदात्मकत्वेऽपि
जात्यन्तरस्य तत्तदापादने तस्य-जात्यन्तरस्य तदापादने-केवलोभयपक्षदोषापादने। किमित्याह-अतिप्रसङ्गः। कथमित्याह-येन केनचिद् दुष्टेन विश्वस्य-जगतो दुष्टतापत्तेरिति-एवं यत्किञ्चिदेतत्-अनन्तरोदितम् । तथा नीलशब्दो नीलगुणविशिष्टं द्रव्यमाहेत्यादि तु यदुक्तं पूर्वपक्षे तदनभ्युपगमादेव २५ कारणात् न न:-नास्माकं क्षतिमावहति-पीडां प्रापयति । एतदेवाह-न खलु
जैनैवैशेषिकैरिव द्रव्य-गुण-जातयो भिन्ना एवेष्यन्ते। किं तर्हि ? कथचिद् भिन्ना इति । न च निरंशमेव द्रव्यं जैनैवैशेषिकैरिवेष्यते; अपि त्वेकानेकखभावम् । तत्र च-एवम्भूते द्रव्ये उक्तवत्-यथोक्तं तथोक्तदोषाभावः। तथाहि-नीलविशेषपरिणामात् सकाशात् केथश्चिदभिन्नश्वासौ सत्त्वादि
१ दृश्यता ३५२तम पृष्ठम् । २ ३५३तमे पृष्ठे । ३ 'पक्षोक्तदोषा.' इति ङ-पाठः । ४ ३५३तमे पृष्ठे। ५ 'कथञ्चिद् भिन्नः' इति उ-पाठः।।