________________
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् ३६१
(मूलम्) रिक्तविशेषणाभावे तद्वैशिष्ट्यासिद्धेः । न हि खच्छोदकविन्दोः सर्वथा समानयोर्व्यक्तिभेदेऽपि तथाजातिभेदो नाम, न चोदकमात्रतत्त्ववादिनस्तदतिरिक्तदेशाद्यननुवेधे तत्तत्त्वाविशेषादितरोऽपि ५ न्याययः। अनादृत्य तु सूक्ष्मेक्षिकामेतदुक्तमिति न सत्त्वादिमात्रमेव तत्, विशिष्टं पुनर्विशेषणभाव इति तदेकानेकखभावत्वसिद्धिः। तत्तथाऽभिधाने च तथा वस्तुशब्दस्वाभाव्यादनेकान्तनीत्या वस्तुतथात्वानुसारि सुस्थितं सामानाधिकरण्यम् । नीलत्वोत्पल(त्व)विशेषपरिणामयोः कथञ्चित् सत्त्वादिसमानपरिणामाभेदात् , तस्य ३०
(खो० व्या०) कथञ्चित्-केनचित् प्रकारेण तदतिरिक्तविशेषणाभावे-सत्त्वादिमात्रातिरिक्तनीलत्वादिविशेषणाभावे तद्वैशिष्टयासिद्धेः-नीलोत्पलसत्त्वादिमात्रस्य वैशिष्ट्यासिद्धेः। एतद्भावनायैवाह-न हि स्वच्छोदकविन्दोः सर्वथा समानयोः आकारादिना व्यक्तिभेदेऽपि सति तथा-उदकानुदकत्वेन जातिभेदो नाम, १५ न चोदकमात्रतत्त्ववादिनः-एकान्तवादिनः तदतिरिक्तदेशाद्यननुवेधेउदकत्रितत्त्वातिरिक्तदेशाधननुवेधे सति तत्तत्त्वाविशेषात्-उदकमात्रतत्त्वाविशेषात् इतरोऽपि-व्यक्तिभेदोऽपि न्याय्यः। अनादृत्य तु सूक्ष्मेक्षिकामेतदुक्तमिति-एवं न सत्त्वादिमात्रमेव तत्-नीलोत्पलम् , विशिष्टं पुनः सत्त्वादि विशेषणभावे, नीलोत्पलत्वभाव इत्यर्थः । इति-एवं तस्य, प्रक्रमात् २० नीलोत्पलादेः, एकानेकस्वभावत्वसिद्धिः इति निगमनम् । तत्तथाभिऽधाने च तस्य-नीलोत्पलादेरेकानेकस्वभावस्य तथाऽभिधाने च-तत्त्वाभिधाने च सति 'सुस्थितं सामानाधिकरण्यम्' इति योगः । कथमित्याह तथा वस्तुशब्दखाभाव्याद् वाच्यवाचकत्वेन अनेकान्तनीत्या सत्त्वादिनीलत्वादिभेदाभेदतो वस्तुतथात्वानुसारि-तद्याथात्म्यभणनेन सुस्थितं सामानाधिकरण्यम् । २५ एतदेव विशेषेणोपदर्शयन्नाह-नीलत्वोत्पलत्वविशेषपरिणामयोः। किमित्याह-कथश्चित्-केनचित् प्रकारेणान्योन्यानुवेधरूपाधाराधेयलक्षणेन सत्त्वादिसमानपरिणामाभेदात् तस्य च-अधिकृतसमानपरिणामाभेदस्य यथोक्त
१ 'भावोव तद्वैशिष्ट्या' इति क-पाठश्चिन्त्यः । २ 'नु' इति क-पाठः। ३ 'नीलोत्पलत्वविशेषः' इति ग-पाठः । ४ 'मात्रत्वातिरिक्त०' इति ङ-पाठः । ५ 'भाव नीलो.' इति ङ-पाठः ।
अनेकान्त० ४६