________________
अनेकान्तजयपताकाख्यं प्रकरणम् [चतुर्थः
( मूलम् ) बाह्य एव कथञ्चित् सामानाधिकरण्यसिद्धिः। तत्रापि तथाविध
शब्दस्य कथञ्चिद् भिन्ननिमित्तत्वोपपत्तावप्येकार्थवृत्तित्वस्याप्यवि. ५रोधात्, तदेकानेकखभावत्वेन, उभयस्यापि निरुपचरितत्वादिति । तथाहि-नीलत्वोत्पलत्वे विशेषपरिणामरूपे न सत्त्वादिसमानपरिणामाननुविद्धे, कचित् तथाऽननुभवात् , तदननुविद्धयोरसत्त्वापत्तेः। न च सत्त्वादिमात्रतत्त्वे एव अन्यथाऽपि वेदनात्, तदन्यत्र तदननुविद्धस्यापि तस्य भावात् । सत्त्वादिमात्रमेव तद् विशिष्ट१० मिति चेत्, न, सत्त्वादिमात्रतत्त्वे तद्भाव एव कथञ्चित् तदति
(खो० व्या०) ताऽतिरेकेण उक्तवत्-यथोक्तं तथा बुद्धावपि विकल्पिकायां तदयोगात्सामानाधिकरण्यायोगात् कारणात् बाह्य एवं कथञ्चित् सामानाधिकरण्यसिद्धिः । तत्रापीत्यादि । तत्रापि-बाह्ये तथाविधशब्दस्य-भिन्ननिमित्त१५ प्रयुक्तस्य नीलादेः कथञ्चित् केनचित् प्रकारेण तद्धर्मभेदवाच्यत्वेन भिन्ननिमित्तत्वोपपत्तावपि सत्यां एकार्थवृत्तित्वस्याप्यविरोधात् कथञ्चिदेव । कथमेतदेवमित्याह-तदेकानेकस्वभावत्वेन तस्य-नीलोत्पलादेर्वस्तुनः एकानेकस्वभावत्वेन हेतुना इतरेतरव्याप्त्या तथा तदाधाराधेयस्वभावत्वेन उभयस्थापि, प्रक्रमाद् भिन्ननिमित्तैकार्थतावृत्तित्वोभयस्य निरुपचरितत्वादिति । २० एतदेव भावयति तथाहीत्यादिना । तथाहीति पूर्ववत् । नीलत्वोत्पलत्वे किंविशिष्टे इत्याह-विशेषपरिणामरूपे एते। किमित्याह-न सत्त्वादिसमानपरिणामाननुविद्धे । कुत इत्याह-कचित् तथा-सत्त्वाद्यननुवेधेन । किमित्साह-अननुभवान्नीलत्वोत्पलत्वयोः,तथा तदननुविद्धयोः-सत्त्वायननुविद्धयोः
असत्त्वापत्तेः, स्वतोऽतद्रूपत्वादिति भावना। न च सत्त्वादिमात्रतत्त्वे एव २५ नीलत्वोत्पलत्वे । कुत इत्याह-अन्यथाऽपि तदनुविद्धनीलत्वादिनाऽपि वेदनादेः तयोस्तथा तदन्यत्र-घटादौ तदननु विद्धस्यापि-नीलत्वोत्पलत्वाननुविद्धस्यापि तस्य-सत्त्वादेभावात्। सत्वादिमात्रमेव तत्-नीलोत्पलं विशिष्टम् । इति चेत्, एतदाशझ्याह-न, सत्वादिमात्रतत्वे तद्भाव एव-सत्त्वादिमानभाव एव
१ 'सिद्धेः' इति ग-पाठः। २ 'रूमो न' इति क-पाठः। ३ 'माने तत्त्वे' इति क-पाठः । ४ 'सतोऽद्रूप' इति ऊ-पाठः। ५ 'नीलोत्पलत्वे' इति ङ-पाठः ।