________________
स्वोपज्ञव्याख्यामुनि चन्द्रीयविवरणयुतम्
( मूलम् )
सामग्र्ययोगात्, समग्रेभ्यस्तद्भेदाभेदविकल्पासिद्धेः । न च तत्सिद्धावपि तद्भेदः समालोच्यमानो घटते, एकसमग्राणामन्याजनकत्वात् तत्रैव सामर्थ्याभ्युपगमात् । न च तेषामेवोपादान सहकारिभावतः ५ तद्भेदः, अभिधानमात्रत्वात् उक्तवद् युक्त्यनुपपत्तेः । न च सर्वेषां सर्वजनन स्वभावस्वतोऽनपराधः, तदेकस्वभावत्वविरोधात्, अविरोधेऽपि तत्तुल्यतापत्तेरिति तदेकानेकस्वभावत्वसिद्धिः । एवं च लोके तथादर्शनात् बहिर्मुखावभासि संवेदनोपपत्तेः बाधाऽसम्भवात् तथाचित्रस्वभावतातिरेकेणोक्तवद् बुद्धावपि तदयोगाद् ? ( स्वो० व्या० )
१०
अधिकार: ]
३५९
अनन्तरक्षणसुखादिभेदः । कुतो नेत्याह- सामग्र्ययोगात् । अयोगश्च समग्रेभ्यः सकाशादालोकादिभ्यः तद्भेदाभेदविकल्पासिद्धेः, तस्याः - सामग्र्याः भेदाभेदविकल्पाभ्यामसिद्धेः । प्रकटमेतत् । न च तत्सिद्धावपि सामग्रीसिद्धावपि तद्भेदः - सामग्रीभेदः समालोच्यमानो घटते । कथं न घटत इत्याह- १५ एकसमग्राणाम्--अनन्तरक्षणसमग्राणामन्याजनकत्वात्, सुखाद्यजनकत्वादित्यर्थः । अजनकत्वं च तत्रैव - एकस्मिन् सामर्थ्याभ्युपगमात् परैः । न च तेषामेव समग्राणामुपादान सहकारिभावतः कारणात् तद्भेदः - सामग्रीभेदः । कुत इत्याह- अभिधानमात्रत्वादस्य उक्तवद् युक्त्यनुपपत्तेः स्वभावभेदापत्त्या । न च सर्वेषां - समग्राणां सर्वजननस्वभावत्वतः कारणात् अनप - २० राधः - अदोषः अनन्तरोदितः । कुत इत्याह- तदेकस्वभावत्वविरोधात् समग्राणामेकस्वभावत्वविरोधात् अविरोधेऽपि तदेकस्वभावत्वेऽपीत्यर्थः, तत्तुल्यतापत्तेः प्रक्रमात् तेषां-कार्याणां तुल्यतापत्तेः, एकतैव एकैकस्य तावद्भ्य एकस्वभावेभ्यस्तैथोपपत्तेरिति भावनीयमिति एवं तदेकानेकस्वभावत्वसिद्धिः तेषां - भावानामेकानेकस्वभावत्वसिद्धिः । एवं चेत्यादि । एवं च कृत्वा बाह्य एवार्थ २५ इति सामर्थ्यात्, कथञ्चिन्न तु सर्वथा, एकान्तैकस्यैकानेकाकारतायोगात् सामानाधिकरण्यसिद्धिरिति योगः । कुत इत्याह- लोके तथादर्शनाद् - बाह्ये नीलो - त्पलादौ सामानाधिकरण्यदर्शनात् । दर्शनं च बहिर्मुखावभासिसंवेदनोपपत्तेः । तथाहि - नीलमुत्पलमिति बहिर्मुखावभासं संवेदनम् । न चास्य बाधेत्याह-वाघाऽसम्भवात् तथाचित्रस्खभावताऽतिरेकेण - एकानेकरूपचित्रस्वभाव- ३०
१ 'भेदतः' इति ङ--पाठः । २ 'स्तथोत्पत्तेरिति' इति ङ-पाठः ।