________________
अनेकान्तजयपताकाख्यं प्रकरणम्
( मूलम् )
प्रतीतेः, सन्नीलमुत्पलमित्यादिसंवेदनात् । न च यदेव सत्त्वं तदेव नीलत्वादि, तद्गतावपि क्वचित् तदनवगतेः विप्रकृष्टादिभिस्तथा" दर्शनात् । न चैकखभावादेव तत एष बुद्धिभेदः, अतिप्रसङ्गात् कासाञ्चिदहेतुकत्वापत्तेः । न च निरालम्बना एवैता इति, तद्भावभावित्वोपपत्तेः, अन्यथा तदयोगात् । न चाविकल्पिकैका साध्वी, एतास्त्वसाध्य इति, विहितोत्तरत्वात्, तत एव तत्प्रसूतेः अनन्तरक्षण सुखादिसंवेदनादिजनकत्वाद् वा । न च तद् येनैव खभावेन १० अनन्तरक्षणं जनयति तेनैव सुखादि, तदभेदापत्तेः सर्वथा हेस्वभेदात् । न चैका जनकत्वतः सामग्रीजनकत्वेन तद्भेदत एव तद्भेदः,
( खो० व्या० )
स्वभावतया प्रतीतेः । प्रतीतिश्च सनीलमुत्पलमित्यादिसंवेदनात् । न च यदेव सवं तदेव नीलत्वादि । कुत इत्याह- तद्गतावपि सत्त्वगतावपि १५ क्वचित्-न सर्वत्र । किमित्याह - तदनवगतेः - नीलत्वाद्यनवगतेः । एतदेवाहविप्रकृष्टादिभिः प्रमातृभिरिति गम्यते । तथादर्शनात् सत्त्वगतावपि नीलत्वाद्यनवगतिदर्शनात् । 'आदि' शब्दान्मन्दलोचनपरिग्रहः । न चैकस्वभावादेव ततः- नीलोत्पलादेरेष बुद्धिभेदः सत्त्वनीलत्वादिलक्षणः । कुत इत्याहअतिप्रसङ्गात् - बुद्ध्यन्तरस्यापि तत एव भावप्रसङ्गात् । तथा कासाञ्चिद२० हेतुकत्वापत्तेः बुद्धीनाम् न च निरालम्बना एवैताः - सत्त्वादिबुद्धय इति । कुत इत्याह-तद्भावभावित्वोपपत्तेः - अधिकृतार्थ भावभावित्वोपपत्तेः; अन्यथा तदभावे तदयोगात् सत्त्वादिबुद्ध्ययोगात् । न चाविकल्पिकैका साध्वी वर्तते, एतास्तु सत्त्वादिबुद्धयः असाध्य इति । कुत इत्याह-विहितोत्तरत्वात् अधः, तथा तत एव - अधिकृतवस्तुनो यद्वा विकल्पिकातो बुद्धेः तत्२५ प्रसृतेः । हेत्वन्तरमाह- अनन्तरक्षणसुखादिसंवेदना दिजनकत्वाच एकानेकस्वभावत्वे भावानामविरोध इति । अनन्तरक्षणश्च सुखादिसंवेदनादि च एतजनकत्वाद् वस्तुनः । न च तद् येनैव खभावेन हेतुना अनन्तरक्षणं जनयति वस्तु तेनैव सुखादि । कुत इत्याह- तदभेदापत्तेः - अनन्तरक्षण सुखायभेदापत्तेः । आपत्तिश्च सर्वथा हेत्वभेदात् । न चैका जनकत्वतः कार३० णात् सामग्रीजनकत्वेन हेतुना तद्भेदत एव- सामग्रीभेदत एव तद्भेद:
१ 'जनकत्वात् । न च' इति ग-पाठः ।
३५८
[ चतुर्थः