________________
अधिकारः]
खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
तत्त्वत इति चेत्, सन्नित्यपार्थक उपन्यासः । तचित्रतायामपि को दोष इति चेत्, न कश्चिदपि, न बाह्यस्यापि तद्भावाविरोध इत्येवं च अलमनेन तत्प्रतिक्षेपासदभिनिवेशेन बाह्य एवेदमस्तु तथालोक-५ प्रतीतेः । तथा चाहुवृद्धाः-"भिन्ननिमित्तप्रयुक्तस्य शब्दस्यैकस्मिन् अर्थे वृत्तिः सामानाधिकरण्यम् ।" न चैतदर्थशबलतामन्तरेण एकस्मिन् अनेकनिमित्ताभावात् एकत्वविरोधात् तत्स्वभावभेदमन्तरेण तत्कल्पनाऽसिद्धेः अतिप्रसङ्गात् तथा तचित्रैकखभावताऽभ्युपगमे चाविप्रतिपत्तिरावयोः, तदेकानेकखभावत्वमन्तरेण तचित्रैकखभा-१० वताऽयोगात्। न चैकानेकखभावत्वे भावानां विरोधः, तथा
(स्त्रो० व्या०) पत्तिः, न तत्त्वतः तचित्रता । इति चेत्, एतदाशझ्याह-सन्नित्यपार्थक उपन्यासः। तत्प्रतिभासतया सन्नेवेत्ययम् । तचित्रतायामपि-बुद्धिचित्रतायामपि को दोषः। इति चेत्, एतदाशङ्कयाह-न कश्चिदपि तु (१न) बाह्यस्यापि- १५ नीलोत्पलादेः तद्भावाविरोधः-चित्रभावाविरोध इत्येवं च कृत्वा अलमनेन तत्प्रतिक्षेपासदभिनिवेशेन-बाह्यप्रतिक्षेपासदभिनिवेशेन । बाह्य एवेदमस्तु सामानाधिकरण्यादि । कुत इत्याह-तथालोकप्रतीतेः। तथा चाहुः वृद्धा:-शब्दार्थव्यवहारविदः पाणिनीयाः-भिन्ननिमित्तप्रयुक्तस्य शब्दस्य इति जातावेकवचनम्, अन्यथा शब्दयोरिति द्रष्टव्यम् । एकस्मिन्नर्थे वृत्तिः २० सामानाधिकरण्यमिति निदर्शनमभिहितमेव नीलोत्पलमिति । न चैतत्सामानाधिकरण्यमर्थशवलतामन्तरेण एकस्मिन्-अशबलेऽर्थेऽनेकनिमित्ताभावात्। अभावश्च एकत्वविरोधात् तत्वभावभेदमन्तरेण-अर्थस्वभावभेदमन्तरेण तत्कल्पनाऽसिद्धेः अनेकनिमित्तकल्पनाऽसिद्धेः । असिद्धिश्व-अतिप्रसङ्गात् निमित्तान्तरकल्पनेन । तथा तचित्रैकखभावताऽभ्युपगमे च तस्य- २५ अर्थस्य चित्रकस्वभावताऽभ्युपगमे च सति । किमित्याह-अविप्रतिपत्तिरावयोः। कुत इत्याह-तदेकानेकस्वभावत्वमन्तरेण तस्य-अर्थस्यैकानेकस्वभावत्वमन्तरेण तचित्रैकस्वभावताऽयोगात् तस्य-अर्थस्य चित्रैकखभावताऽयोगात्। न चैकानेकखभावत्वे भावानां विरोधः । कुत इत्याह-तथाप्रतीते:-एकानेक
१ वा विप्रति०' इति ग-पाठः। २ “उभयथा ह्याचार्येण सूत्राणि पठितानि । आकृति पदार्थ मत्वा 'जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्' (पा. सू. १.२-५८) इत्युच्यते; द्रव्यं पदार्थ मत्वा 'सरूपाणमेकशेष एकविभक्तौ' (पा. सू. १-२-६४) इसकशेष आरभ्यते। पातं. क. पृ. ५३" इति क-प्रतौ टिप्पणकम् ।