________________
३५६
अनेकान्तजयपताकाख्यं प्रकरणम्
[चतुर्थः
भूतमेवेति चेत्, बालक्रीडनकप्रायः शास्त्रारम्भः। तत्त्वत इत्थमे
वेति चेत्, नोचितमबालस्य बालचेष्टितम् । फलातेरुचितमिति चेत्, '५ किमसद्व्यवहारात् फलम् ? । तत्त्वप्रतिपत्तिरिति चेत्, साऽसद्
व्यवहारादिति चित्रम् । एतद्याथात्म्यप्रतिपत्तिरेवेयमिति चेत्, कथं विकल्पात्मिकायास्तत्त्वम् ? । कथं च न स्यादिति चेत्, असदाकारानुवेधात् । खसंवित् तत्र तत्त्वमिति चेत्, न सा न विपक्षेऽपीति यत्किञ्चिदेतत् । साऽन्याशी चेत्, किंकृतमन्या३० दृशत्वम् ? । प्रतिभासभेदकृतमिति चेत्, कथमसन् भेदको नाम? । तत्प्रतिभासतया सन्नेव इति चेत्, तचित्रतापत्तिः। न
(खो० व्या०) भूतमेव अपारमार्थिकमेव । इति चेत्, एतदाशङ्कयाह-बालक्रीडनकप्रायः शास्त्रारम्भः। तत्त्वत इत्थमेवेति चेत् बालक्रीडनकप्राय एव १५ शास्त्रारम्भः । एतदाशझ्याह-नोचितमबालस्य बालचेष्टितम्, अबालश्च भवानिति । फलातेः कारणादुचितमिति अबालस्यापि बालचेष्टितमिति । एतदाशयाह-किमसद्व्यवहारात् फलं खरविषाणकल्पत्वात् तस्य ?। तत्त्वप्रतिपत्तिरिति चेत् असद्व्यवहारात् फलम् । एतदाशयाह-सा-तत्त्वप्रतिपत्तिः
असद्व्यवहारादिति चित्रम्-अद्भुतम् । कथमसंस्तत्त्वप्रतिपत्तिहेतुः। एतद्२० याथात्म्यप्रतिपत्तिरेव-असन्नयं व्यवहार इति प्रतिपत्तिरेव । इयं-तत्त्वप्रतिपत्तिः। इति चेत्, एतदाशङ्कयाह-कथं विकल्पात्मिकाया:-प्रतिपत्तेः तत्त्वंयाथात्म्यम् ? । कथं न स्यादिति चेत् तत्त्वम् । एतदाशङ्क्याह-असदाकारानुवेधात् न स्यात् । खसंवित् तत्र-प्रतिपत्तावसत्त्वाकारेणानुवेधेऽपि तत्वम् । इति चेत्, एतदाशक्याह-न सा-स्वसंवित् न विपक्षेऽपि-वस्तु सत् सामाना२५ धिकरण्यादिबुद्धावपि इति-एवं यत्किञ्चिदेतत् । सा-विपक्षसम्बन्धिनी स्वसंविद्
अन्यादृशी । इति चेत्, एतदाशङ्कयाह-किंकृतमन्यादृशत्वं तस्याः ? । प्रतिभासभेदकृतम्-आकारभेदकृतम् । इति चेत्, एतदाशङ्कयाह-कथमसन् प्रतिभासो भेदको नाम ? । तत्प्रतिभासतया-बुद्धिप्रतिभासतया सन्नेव इति चेत् प्रतिभासः । एतदाशङ्कयाह-तचित्रतापत्तिः, तस्याः-बुद्धेश्चित्रता
२ 'दुचितमेवेति' इति क-पाठः ।
१'चेत् कथमसतभेद(?)असदा०' इति क-पाठः। ३ 'कल्पत्वादस्य' इति उ-पाठः।