________________
अधिकारः]
खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
सत्त्वात् । यद्यनेकधर्मकमेकमालम्बनं भवति, ततस्तदनुसारेण नियमवती तथाविधा बुद्धिरुपजायते, तथा च नानाफलः शब्द एकाधार प्रवर्तत इति भवति ॥ ___सामानाधिकरण्यं न च तदस्तीति कथं तद्भावः । न खलु मुख्यस्त्रीपुरुषद्वन्द्वसम्भव्यपत्यं वन्ध्यासुतदुहितयुगलकाद् भवतीति कदाचिदनभिनिविष्टः प्रेक्षावानभिधत्ते तद्भावे च बुद्धाविव तत्राप्यविरोध एवास्य । बुद्धिः परिकल्पिता अर्थस्त्वपरिकल्पित इति चेत्, किमत्र क्षुण्णम् ? स तथाविधो नास्तीति चेत्, बुद्धिः किमस्ति ? १० परिकल्पिताऽस्तीति चेत्, न तर्हि पारमार्थिकी । कः किमाहेति चेत् कथं तथाभूतायां सामानाधिकरण्यादि ? । तदपि तथा
(स्वो० व्या) कान्ताभावालम्बनः प्रतिभास इति भावनीयम् । अत एवाह-यद्यनेकधर्मकमेकमालम्बनं भवति, ततस्तदनुसारेण-अधिकृतालम्बनानुसारेण नियमवती १५ तथाविधा-अनीलव्यावृत्त्यादिरूपा बुद्धिरुपजायते। तथा च-एवं च सति नानाफलः शब्द एकाधार प्रवर्तत इति-एवं भवति ॥
सामानाधिकरण्यं न च तदस्ति अनेकधर्मकमेकमिति-एवं च कथं तभावः-सामानाधिकरण्यभावः? । न खलु-नैव मुख्यस्त्रीपुरुषद्वन्द्वात् सम्भवितुं शीलमस्येति विग्रहः । अपत्यादि-दिक्करिकादि वन्ध्यासुतदुहित-२० युगलकाद् भवतीति-एवं कदाचिदनभिनिविष्टः सन् प्रेक्षावान्बुद्धिमान् अभिधत्ते अभिनिवेशस्त्वचिन्त्यः तद्भावे च बुद्धौ-सामानाधिकरण्यभावे च बुद्धौ इव इति निदर्शनम् । तत्रापि अर्थे अविरोध एवास्य-सामानाधिकरण्यस्य । नाविरोध इत्याह-बुद्धिः परिकल्पिता वर्तते, अर्थस्त्वपरिकल्पितः । इति चेत्, एतदाशङ्कयाह-किमत्र क्षुण्णम् ? २५ सुतरां तत्र भवतु । स तथाविधः-अपरिकल्पितो नास्ति । इति चेत्, एतदाशङ्कयाह-बुद्धिः किमस्ति तथाविधेति ? । परिकल्पिताऽस्तीति चेत् बुद्धिः । एतदाशङ्याह-न तर्हि पारमार्थिकीति । कः किमाहेति चेत् नास्त्येव पारमार्थिकी । एतदाशङ्कयाह-कथं तथाभूतायां-अपारमार्थिक्यां तत्त्वतोऽसत्यां सामानाधिकरण्यादि ?| तदपि-सामानाधिकरण्यादि तथा-३०
१ 'शब्द एवैकाधारो' इति क-पाठः। २ 'खूणं' इति ङ-पाठः। ३ 'चेत् नास्त्येव पारमार्थिकी एतदाशङ्कयाह-कथं तथाभूतायां अपारमार्थियां तत्त्वतोऽसत्या' इति क-पाठः। ४ 'अपत्यं करकादि(१) इति क-पाठः। ५ 'क्षणम्' इति क-पाठः ।