________________
३५४
अनेकान्तजयपताकाख्यं प्रकरणम्
[ चतुर्थः
(मूलम्) प्रतिभासी धर्मी अनीलव्यावृत्तरूप एव प्रतिभासते, अनुत्पलव्यवच्छेदस्तु न नीलशब्देनोपात्तो न प्रतिक्षिप्तः, उत्पलशब्दप्रयोगादपि ५ अनुत्पलव्यावृत्तरूप एवं प्रतिभाति, अनीलव्यवच्छेदस्तूत्पलशब्देन नोपात्तो न त्यक्तः, नीलमुत्पलमिति शब्दद्वयंयोगे तूभयसमारोपव्यावृत्तकर्मिप्रतिभासिनी विकल्पबुद्धिरुत्पद्यते, ततो नानाफलः शब्द एकाधारो भवतीति भवेद् बुद्ध्यनुरोधेन सामानाधिकरण्यमिति । ननु बुद्धिप्रतिभाससन्दर्शितो धर्मी वस्तुत एकोऽनेक० धर्मा, विकल्पनिर्मितस्य धर्मधर्मिभावस्यालीकत्वात्, यतश्च भेदान्तराप्रतिक्षेपेणोत्पलशब्दो वर्तते, ततोऽप्रतिक्षिप्तभेदान्तरापेक्षित्वाद् बुद्धर्भवति विशेषणविशेष्यभावः, उत्पलं किं नीलमिति, एतदप्यसत्, विकल्पबुद्धिप्रतिभासस्यालम्बनाभावेन परमार्थतोऽ
(स्वो० व्या०) १५ नीलशब्दप्रयोगाद् बुद्धिप्रतिभासी धर्मी अनीलव्यावृत्तरूप एव
प्रतिभासते । अनुत्पलव्यवच्छेदस्तु नीलशब्देन नोपात्तो न प्रतिक्षिप्तः, तथाप्रतीतेः । एवमुत्पलशब्दप्रयोगादप्यनुत्पलव्यावृत्तरूप एव प्रतिभाति धर्मी विकल्पबुद्धौ, अनीलव्यवच्छेदस्तूत्पलशब्देन नोपात्तो न त्यक्तः, तथाप्रतीतेः, नीलमुत्पलमिति-एवं शब्दद्वयप्रयोगे पुनरुभय२० समारोपव्यावृत्तकर्मिप्रतिभासिनी विकल्पबुद्धिरुत्पद्यते । ततः एवं नानाफलः शब्दो नीलादिरूप एकाधारो भवतीति कृत्वा भवेद् बुद्ध्यनुरोधेन उक्तप्रतिभासयोगात् सामानाधिकरण्यमिति । न चेहाप्यपरविकल्पसम्भवो दोष इत्याह-ननु वुद्धिप्रतिभाससन्दर्शितो धर्मी वस्तुतःपरमार्थेन एकोऽनेकधर्मा । कुत इत्याह-विकल्पनिर्मितस्य धर्मधर्मिभावस्य २५ अलीकत्वात् । यतश्चेत्यादि । यतश्च भेदान्तराप्रतिक्षेपेण-अनीलव्यवच्छेदाप्रतिक्षेपेण उत्पलशब्दो वर्तते, ततोऽप्रतिक्षिप्तभेदान्तरापेक्षित्वात् कारणाद् बुद्धर्भवति विशेषणविशेष्यभावः । कथमित्याह-उत्पलं किं नीलमिति व्यवच्छेद्यं विशेष्यं व्यवच्छेदकं विशेषणमिति कृत्वा । एवं पूर्वपक्षमाशङ्कयाह-एतदप्यसत्-अशोभनम् । कुत इत्याह-विकल्प३० बुद्धिप्रतिभासस्थालम्बनाभावेन हेतुना परमार्थतोऽसत्त्वात्, अनै
१ 'योगे उभय०' इति ग-पाठः । २ 'नुरोधित्वेन सामाना०' इति ग-पाठः। ३ 'न तु' इति क-पाठः। ४ 'धर्मा' इति ङ-पाठः। ५ 'व्यवच्छेदानुप्रति०' इति हु-पाठः।