________________
अधिकारः]
स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
३५३
द्वितीयपक्षे त्वेकाधारताभावः घटपटादिशब्दवत्, नानाविषयत्वात् । अथ मतं नीलशब्दो नीलगुणविशिष्टं द्रव्यमाह, उत्पलशब्दोऽप्युत्पलत्वजातिविशिष्टं तदेव द्रव्यम् , अतो विशेषणयो-५ भेदात् नानाफलः शब्दो विशेष्याभेदादेकाधार इति, एतदप्यसत्, युत्तययोगात् । तथाहि-नीलगुणेन विशिष्टं द्रव्यं नीलशब्देनाभिधीयमानं सर्वात्मनाऽभिधीयते, अनंशत्वात्, कोऽपरो द्रव्यस्योत्पलत्वादिजातिविशिष्ट आत्माऽनभिहितोऽस्ति य उत्पलशब्देनाभिधीयेत इति तथैव पर्यायता स्यात् । अथ विशेषणभेदाद् विशे-१० प्यस्य द्रव्यस्य भेदस्तथाप्येकाधारता न स्यादिति वैयधिकरण्यमेव । एवं विशेषणविशेष्यभावानुपपत्तिरपि वाच्या, अन्यापोहपक्षे त्वयमदोषः, एकस्यैव धर्मिणो व्यवच्छेदद्वयोपगृहीतस्य विकल्पबुद्धौ प्रतिभासनात् । एतदुक्तं भवति-नीलशब्दप्रयोगाद् बुद्धि
(स्वो० व्या०) द्वितीयपक्षे पुनः-अनेकं वस्तुवाच्यमित्यस्मिन्नेकाधारताभावः घटपटादिशब्दवन्नानाविषयत्वादनयोरिति । अथ मतं नीलशब्दो नीलगुणविशिष्टं द्रव्यमाह, उत्पलशब्दोऽप्युत्पलत्वजातिविशिष्टं तदेव द्रव्यमाह, अतो विशेषणयोः-गुण-जात्यो दात् कारणात् नानाफलः शब्दो विशेष्याभेदात्-द्रव्याभेदादेकाधार इति न कश्चिद् दोषः । एतदाशङ्कयाह-२० एतदपि असत्-अशोभनम् । कुत इत्याह-युत्तययोगात् । एनमेवाह तथाहीत्यादिना । तथाहीति पूर्ववन्नीलगुणेन विशिष्टं द्रव्यं नीलशब्देनाभिधीयमानं सर्वात्मनाऽभिधीयते, अनंशत्वाद् द्रव्यस्य, ततः कोऽपरो द्रव्यस्योत्पलत्वजातिविशिष्ट आत्माऽनभिहितः-अनुक्तोऽस्ति य उत्पलशब्देनाभिधीयेत इति-एवं तथैव पर्यायता स्यात् । अथ विशेषण- २५ भेदात्-गुणजातिभेदाद् विशेष्यस्य द्रव्यस्य भेदः, तथापि एवमपि एकाधारता न स्याद् द्रव्यभेदभावात् इति-एवं वैयधिकरण्यमेव । एवं विशेषणविशेष्यभावानुपपत्तिरपि वाच्या । विशेषस्त्वनयोरन्यत्र प्रदर्शित एव । न चान्यापोहपंक्षेऽप्ययं दोषः [। कुत] इत्याह-अन्यापोह पक्षे त्वयमदोषः। कुत इत्याह-एकस्यैव धर्मिणो व्यवच्छेदवयोपगृहीतस्य-अपोहद्वयोपगृहीतस्य ३० विकल्पबुद्धौ प्रतिभासनात् । एतदेव स्पष्टयन्नाह-एतदुक्तं भवति
१ 'बुद्धेः' इति क-पाठः। २ 'त्वादिति' इति ऊ-पाठः। ३ 'धीयते' इति क-पाठः । ४ 'पक्षे त्वयमदोषः कुत इत्याह एकस्यैव' इति ङ-पाठः।
अनेकान्त. ४५