SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३५२ अनेकान्तजयपताकाख्यं प्रकरणम् [ चतुः (मूलम्) एवमपि तुल्य एवानन्त्यदोष इति चेत्, न, समानपरिणामवद्भावेषु अन्यतरवाचकत्वनियोगेऽपि ध्वनेरदोषात्, भूयोऽपि ततस्ताशि ५प्रवृत्त्यविरोधात् एवम्भूता एतच्छन्दवाच्या इति नियोगसमये नियोगादिति । एवं व्यवहारानुपयोगादिति यत्किञ्चिदेतत्, इत्थमेव व्यवहारोपपत्तेः, अन्यथोक्तवदयोगात् । आह-वस्तुविषयत्वे शब्दानां सामानाधिकरण्यादिव्यवहाराभावः, विकल्पानुपपत्तेः। तथाहि-नीलोत्पलशब्दयोः एकं वा वस्तुवाच्यं स्यात्, अनेकं वा । १० आद्यपक्षे एकेनैव शब्देन निरंशस्य वस्तुनः सर्वात्मनाभिधानात्, द्वितीयस्य शब्दस्याप्रवृत्तिरभिधेयाभावात्, प्रवृत्तौ वा पर्यायतेति नानाफलत्वम् ॥ (स्वो० व्या०) इति वक्ष्यामः ऊर्द्धम् । एवमपि तुल्य एवानन्त्यदोष इति चेत् । १५ यश्चोभयोर्दोषो न तत्रैकश्चोयो भवतीत्यभिप्रायः । एतदाशङ्कयाह-न, समानपरि णामवद्भावेषु-घटादिषु अन्यतरस्मिन् भावे वाचकत्वनियोगेऽपि ध्वनेः । किमित्याह-अदोषात् । कथमदोष इत्याह-भूयोऽपि ततः-घटादिशब्दात् तादृशि-समानपरिणामवति भावे प्रवृत्त्यविरोधात् । अविरोधश्च एवम्भूता • भावा एतच्छन्दवाच्याः -घटादिशब्दवाच्या इति-एवं नियोगसमये-सङ्केत२० समये नियोगादिति । एवं व्यवहारानुपयोगादिति यत्किञ्चिदेतत्-पूर्वपक्षवचनम् । कुत इत्याह-इत्थमेव-ताशि नियोगे व्यवहारोपपत्तेः, प्रक्रमात् शब्दार्थव्यवहारोपपत्तेः, अन्यथोक्तवदयोगाद् व्यवहारस्य । आह परः-वस्तुविषयत्वे शब्दानामभ्युपगम्यमाने । किमित्याह-सामानाधिकरण्यादिव्यवहाराभावः। 'आदि'शब्दाद् विशेषणविशेष्यभावपरिग्रहः । कथमभाव इत्साह२५ विकल्पानुपपत्तेः। एनामेव दर्शयन्नाह-तथाहीत्यादि । तथाहीत्युपप्रदर्शने । नीलोत्पलशब्दयोरेकं वा वस्तुवाच्यं स्यादने वा । किञ्चातः? उभयथाऽपि दोषः । आयपक्षे एकं वस्तु वाच्यमित्यस्मिन् एकेनैव शब्देन-नीलादिना निरंशस्य वस्तुनः सर्वात्मनाऽभिधानात् कारणाद् द्वितीयस्य शब्दस्य-उत्पलादेः अप्रवृत्तिरभिधेयाभावात्, प्रवृत्ती वा तत्रैवाभिधेये ३० पर्यायताऽनयोः इति एवं नानाफलत्वम् ।। १'न तमेकश्योद्यो' इति -पाठः ।।
SR No.008405
Book TitleAnekantajay patakakhyam Prakaranam Part 1
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1940
Total Pages453
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy