________________
अधिकार: ]
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
( मूलम् )
संवृत्तनानात्वा :- स्थगितनानात्वाः किंविशिष्टया संवृत्त्या संवियते अनया स्वलक्षणमिति कृत्वा भेदिनः स्वयमसाधारणात्मनाऽभेदिन इव संसृष्टा इवाभान्ति भावा रूपेण केनचिद् विजातीयव्यावृत्त्युपल- ५ क्षितेन घटत्वादिना' इति न्यायतो वचनमात्रमेवेति । तथा तैस्या बुद्धेः अभिप्रायवशादेकाकाराध्यारोपवशात् सामान्यं सदिति प्रकीर्तितं बुद्ध्यारोपित एवाकारः सामान्यमुक्तं तदसत् परमार्थेन वस्तुस्थित्या ter सङ्कल्पितं समारोपितं तयेति । एतच्च वचनमात्रम्, परमार्थतस्तदसत्त्वासिद्धेः, बुद्ध्यारूढस्य वेद्यमानत्वात्, तत्प्रतिक्षेपेऽति- १० प्रसङ्गात् तनिर्विषयत्वासिद्धेः, प्रमाणाभावात्, सर्वथाऽसतः प्रतिभासनायोगात्, वियत्केशादिबुद्धेरपि सदालम्बनत्वात् तथाविधतिमिररेण्वादिभावत उत्पत्तेः अन्धतमसेऽभावादिति वक्ष्यामः । ( स्वो० व्या० ) संवियतेऽनया स्वलक्षणमिति कृत्वा भेदिनः स्वयमसाधारणात्मना १५ अभेदिन इव संसृष्टा इवाभान्ति भावा रूपेण केनचिद् विजातीयव्यावृत्त्युपलक्षितेन घटत्वादिनेति - एतन्यायतो वचनमात्रमेव । तथा 'एतच्च वचनमात्रम्' इति योगः । किमित्याह तस्या बुद्धेरभिप्रायवशात् एकाकाराध्यारोपवशात् सामान्यं सदिति प्रकीर्तितं बुद्ध्यारोपित एवाकारः सामान्यमुक्तं तदसत् परमार्थेन वस्तुस्थित्या यथा सङ्कल्पि - २० तमारोपितं तयेति । एतच वचनमात्रम् । कुत इत्याह- परमार्थतः- तत्त्वेन तदसत्वासिद्धेः- सामान्यासत्त्वासिद्धेः । असिद्धिश्व बुद्ध्यारूढस्य वेद्यमानस्वात् तत्प्रतिक्षेपे- बुद्ध्यारूढसामान्यप्रतिक्षेपे अतिप्रसङ्गात् - बुद्ध्यारूडस्वलक्षणाकारस्यापि प्रतिक्षेपापत्तेः । स विषयोऽयं स तु निर्विषय इत्याशङ्कापोहायाह--तन्निविषयत्वासिद्धेः । असिद्धिश्च प्रमाणाभावात् निर्विषयः २५ अयमिति नात्र प्रत्यक्षं नानुमानमिति परिभावनीयम् । सर्वथाऽसतः - पदार्थस्य प्रतिभासनायोगात् 'वियत्केशादिबुद्ध्या व्यभिचार इति विभ्रमापोहायाह-वियत्केशादिबुद्धेरपि, 'आदि' शब्दाद् द्विचन्द्रादिबुद्धिग्रहः, सदालम्बनत्वात् । सदालम्बनत्वं च तथाविधतिमिररेण्वादिभावत उत्पत्तेः कारणात् । इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्धतमसेऽभावात् वियत्केशादिबुद्धेः १०
३५१
१ इत आरभ्य 'घटत्वादिना' पर्यन्तकः पाठो व्याख्यायां ३४७ तमे पृष्ठे दृश्यते । २ अतः परं ' तथा ' saसानकः पाठो व्याख्यायां ३४७ तमे पृष्ठे विद्यते । ३ 'आरोपितं ' इति प्रतिभाति । ४ 'इवासंसृष्टा' इति ङ-पाठः । ५ 'मानमिति भाव०' इति ङ-पाठः । ६ 'विपक्षे केशादि०' इति पाठः ।