________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[ चतुः (मूलम्) तत्र यदुक्तम्-"पररूपम्" इत्याद्यत्र पररूपं व्यावृत्तं खलक्षणमसाधारणं तत् कथं स्वरूपेण स्वप्रतिभासेन संब्रियते प्रच्छाद्यते धिया ५एकार्थप्रतिभासिन्या एकाकारया भावानाश्रित्य भेदिनः खलक्षणान्यधिकृत्योत्पन्नयां तथोत्पन्नायास्तत्प्रतिभासित्वेन तत्प्रकाशनात् । संवरणासिद्धेः पारम्पर्योत्पत्तेः अस्या अतदाकारतेति चेत्, न, न्यायानुपपत्तेः पारम्पर्येणापि कृष्णादिभ्यः सितादिबुद्ध्यसिद्धेः,
तदन्यतरमात्रसत्तापत्त्या तदितराभावप्रसङ्गात् । न चाप्येषैकार्थ१० प्रतिभासिन्येव, तथाऽननुभवात्, तत्समानतया प्रतीतेः, तदननुविद्धकार्थाप्रतिभासनादिति । एवं च संवरणानुपपत्तेः तया धिया
(स्वो० व्या०) तत्र यदुक्तं पूर्वपक्षे-“पररूपम्" इत्यादि अत्रापि पररूपं व्यावृत्तं खलक्षणमसाधारणं वर्तते, तत् कथं स्वरूपेण स्वप्रतिभासेन संवियते १५ प्रच्छाद्यते धिया एकार्थप्रतिभासिन्या एकाकारया भावानाश्रित्य भेदिनः खलक्षणान्यधिकृत्योत्पन्नया ?। अयमत्र पिण्डार्थः-परं रूपं कथं खरूपेण धिया प्रच्छाद्यते कथं च नेत्याह-तथोत्पन्नायाः पारम्पर्येण पररूपेभ्यः तत्प्रतिभासित्वेन-पररूपाकारत्वेन खलक्षणाकारत्वेन तत्प्रकाशनात्पररूपप्रकाशनाद्धेतोः । किमित्याह-संवरणासिद्धेः पारम्पर्योत्पत्तेः कारणात् २० अस्था:-अधिकृतबुद्धेः अतदाकारतेति चेत् अपररूपाकारता, न स्खलक्षणाकारता इत्यर्थः । एतदाशङ्कयाह-न, न्यायानुपपत्तेः । ऐनमेवाह-पारम्पर्येणापि कृष्णादिभ्यः सकाशात् सितादिबुद्ध्यसिद्धेः । असिद्धिश्च तदन्यतरमात्रसत्तापत्त्या-कृष्णाद्यन्यतरमात्रसत्तापत्त्या हेतुभूतया तदितराभावप्रसङ्गात्-कृष्णादीतरसिताद्यभावप्रसङ्गात् । न चाप्येषा-अधिकृता धीः एकार्थ२५ प्रतिभासिन्येव । कुत इत्याह-तथा-एकार्थप्रतिभासित्वेन अननुभवात्
कारणात् । अननुभवश्च तत्समानतया प्रतीतेः-भेदिभावसमानतया प्रतीतेः । इत्थं चैतदङ्गीकर्तव्यमित्याह-तदननुविद्वैकार्थाप्रतिभासनात्-भेदिभावाननुविद्धैकार्थाप्रतिमासनात् इति । एवं च संवरणानुपपत्तेः कारणात् किमित्याहतयाधिया संवृत्तनानात्वा:-स्थगितनानात्वाः किंविशिष्टयासंवृत्त्या
१३४७तमे पृष्ठे। २ सन्तुल्यता यदुक्तं व्याख्यायां ३४७तमे पृष्ठे। ३ तथा धिया' इति क-पाठः । ४ ३४७तमे पृष्ठे। ५ एतामेवाह' इति -पाठः ।