________________
३४९
अधिकारः] खोपजन्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) रत्रापि समानः समाधिः। सा साध्वी न सम्भवत्येवेति चेत्, साधारणोऽभिशापः । खलक्षणदर्शनानुग्रहादसाधारण इति चेत्, न, तद्दर्शनानुग्रहस्यापि भावात्। तदभावादेव तदभाव इति चेत्, ५ न, तस्यासिद्धत्वात्, तदाकारादिसंवेदनात् तन्निश्चयानुपपत्तेः । न साधारणाकारेणैव संवेदनेन साधारणार्थाभावनिश्चयः, अतिप्रसङ्गात्, खलक्षणाकारेणाप्यनेन तदभावनिश्चयापत्तेः । एवमन्याकारेणापि योजना कार्येति । एवं च तदव्यतिरिक्तमिव' इत्याद्यनालोचिताभिधानमिति दर्शितमेव तथापि लेशतो विशेषेण दश्यते । १०
(स्वो० व्या०) मासत्वात् । इति चेत्, एतदाशङ्याह-इतरत्रापि अधिकृतविकल्पबुद्धौ समानः समाधिः-तुल्यः परिहारः। तथाविधवाह्याभावभाविनी साऽपि तदाभासैवेति भावः । सा-तथाविधबुद्धिः साधारणादिधर्मिका स्वलक्षणविषया साध्वी अविषयत्वेन न सम्भवत्येव । इति चेत्, एतदाशक्याह-साधारणोभिशापः अतथा- १५ विधबुद्धिरप्यसाधारणादिधर्मस्खलक्षणविषयत्वसम्मता साध्वी न सम्भवत्येवेति वक्तुं शक्यत्वात् साधारणोऽभिशाप इति । खलक्षणदर्शनानुग्रहात् कारणात् असाधारणः। इति चेत्, एतदाशङ्क्याह-न-नैतदेवम् , तद्दशेनानुग्रहस्थापि-अस्वलक्षणदर्शनानुग्रहस्थापि भावात् तदभावादेव-बाह्यावलक्षणाभावादेव तदभाव इति च-तद्दर्शनानुग्रहाभावः । इति चेत्, एतदाशङ्कयाह-२० न, तस्य तदभावस्य असिद्धत्वात् । असिद्धत्वं च तदाकारादिसंवेदनात्अस्वलक्षणाकारादिसंवेदनात् । 'आदि शब्दात् तदन्याकारादिग्रहः । तन्निश्चयानुपपत्तेः-बाह्यास्खलक्षणाभावनिश्चयानुपपत्तेः । एतत्प्रकटानायैवाह-न साधारणाकारेणैव, अस्वलक्षणाकारणेत्यर्थः, संवेदनेन-विज्ञानेन साधारणार्थाभावनिश्चय:-अस्वलक्षणार्थाभावनिश्चयः । कुतो नेत्याह-अतिप्रसङ्गात् । एनमेवाह- २५ खलक्षणाकारेणाप्यनेन-संवेदनेन तदभावनिश्चयापत्तेः-स्वलक्षणाभावनिश्चयापत्तेः, एवमन्याकारेणापि अस्खलक्षणचिन्तायां स्खलक्षणाकारेण अस्खलक्षण- . चिन्तायां चास्खलक्षणाकारेण योजना कार्या । किमुक्तं भवति ? न स्वलक्षणाकारण संवेदनेनास्वलक्षणार्थाभावनिश्चयः, अतिप्रसङ्गादिति तद्भावना कृतव। एवं च सति तदव्यतिरिक्तमपि व्यतिरिक्तमिवेत्यादि पौर्वपक्षं वचः अनालोचिताभिधान-३० मिति दर्शितमेव तथापि लेशतः-सझेपतो विशेषेण प्रतिवचनं दर्यते॥
१'तद्भावा०' इति ग-पाठः। २ 'तदव्यतिरिक्तमपि व्यतिरिक्तमिवेत्यादि' इति प्रतिभाति । ३ समीक्ष्यता ३४६तम पृष्ठम् । ४ 'ऽतिशयः इति ङ-पाठः । ५ 'अपि' इत्यधिको ङ-पाठः । ६ 'चेद् दर्शना' इति हु-पाठः। ७ 'अवलोक्यतां ३४६तम पृष्ठम् ।