SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ अनेकान्तजयपताकाख्यं प्रकरणम् [चतुर्थः नास्ति कथं प्रतिभासते? प्रतिभासते चेत् कथं नास्तीति ?। अथ बहिः, यद् बुद्धौ प्रतिभासते तत् कथं बहिर्भवति, तद्धर्मत्वात्? । न ५चैतावताऽवस्तुत्वम्, स्खलक्षणबुद्ध्याकारस्यापि अवस्तुत्वप्रसङ्गात् तस्यापि बहिरसत्वात् । स बाह्यबलोपजात इति चेत्, इतरत्रापि समानमेतत् । न तथाविधं बाह्यमस्तीति चेत्, अतथाविधभावे किं प्रमाणम् । तदाकारज्ञानोत्पत्तिरिति चेत्, इयं तथाविधेऽपि सदृशी। नेयं ततः, क्वचित् तदभावेऽपि भावादिति चेत्, निर्विकल्प१० बुद्धावपि तुल्यमेतत् । न सा साध्वी, तदाभासत्वादिति चेत्, इत (खो० व्या०) तत्रैव नास्तीति व्याहतमेतत् । एतदेव भावयति-यदि नास्ति कथं प्रतिभासते? प्रतिभासते चेत् कथं नास्तीति ? । द्वितीयं विकल्पमधिकृत्याह-अथ बहिर्नास्ति यद् बुद्धौ प्रतिभासते तत् कथं बहिर्भवति तद्५ धर्मत्वात्-अधिकृततद्बुद्धिधर्मत्वात् । न चैतावता कारणेन बहिर्नास्तीत्यवस्तुत्वमस्येति । कुत इत्याह-खलक्षणबुद्ध्याकारस्यापि । किमित्याह-अवस्तुत्वप्रसङ्गात् । प्रसङ्गश्च तस्यापि-स्खलक्षणबुद्ध्याकारस्य बहिरसत्त्वाद् बुद्धिधर्मवेन । सः-स्खलक्षणबुद्ध्याकारः बाह्यबलोपजात इति चेत्, ततश्च तत्त्वतः तस्यापि बहिरसत्त्वादित्यसिद्धम् । एतदाशङ्कयाह-इतरत्रापि-अस्खलक्षणाकारे २० समानमेतद् यदुत स बाह्यबलोपजात इति । न तथाविधं-साधारणादिधर्मकं बाह्यमस्तीति चेत्, स्खलक्षणानामसाधारणत्वादित्येतदाशयाह-अतथाविधभावे असाधारणखलक्षणभावे किं प्रमाणम् ? । तदाकारज्ञानोत्पत्तिः-अतथाविधस्खलक्षणाकारज्ञानोत्पत्तिरिति चेत् प्रमाणम् , एतदाशक्याह-इयं तदाकारज्ञानोत्पत्तिः तथाविधेऽपि-साधारणादिधर्मके अस्खलक्षणेऽपीत्यर्थः, सहशी-साधा२५ रणा,साधारणाद्याकारस्याप्यनुभवादित्यर्थः। नेयं-तथाविधसाधारणाद्याकारज्ञानोत्पत्तिः ततः-तथाविधात् साधारणादिरूपाद् बाह्यवस्तुनः। कुत इत्याह-कचित्-अन्यत्र तदभावेऽपि तथाविधसाधारणादिधर्मकबाह्याभावेऽपि भावात्-तथाविधसाधारणाद्याकारज्ञानोत्पत्तेः घटाद्यभावेऽपि तथाविधविज्ञानभावात् । एतदाशङ्याह-निर्वि कल्पकबुद्धावपि, अतथाविधासाधारणस्खलक्षणबुद्धावपीत्यर्थः । तुल्यमेतत्३० अनन्तरोदितं यदुत 'नेयं ततः' इत्यादि । उत्पद्यते च द्विचन्द्राद्यभावे निर्विकल्पकबुद्धिः। न सा तदभावभाविनी निर्विकल्पकबुद्धिः साध्वी, तदाभासत्वात्-साध्व्या१ 'साधारणादिकर्मक' इति अ-पाठः।
SR No.008405
Book TitleAnekantajay patakakhyam Prakaranam Part 1
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1940
Total Pages453
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy