________________
३४७
अधिकारः ] खोपनन्याल्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) च न्यायवादिना
"पररूपं स्वरूपेण यया संत्रियते धिया । एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिनः॥१॥ ५। तया संवृत्तनानात्वाः संवृत्त्या भेदिनः खयम् । अभेदिन इवाभान्ति भावा रूपेण केनचित् ॥ २॥ तस्या अभिप्रायवशात् सामान्यं सत् प्रकीर्तितम् ।
तदसत् परमार्थेन यथा सङ्कल्पितं तया ॥ ३॥" इति । तदप्ययुक्तम्, तत्त्वतो विहितोत्तरत्वात् तदुक्तिमात्रभेदात् । ३० तथाहि-'यद् रूपं तद् बुद्धौ प्रतिभासते, तथाभूतं नास्तीत्यवस्तुत्वमुक्तम्, तत् क्व नास्ति ? किं तद् बुद्धावेव आहोखिद् बहिः ? यदि तद् बुद्धावेव, तत्र प्रतिभासते तत्रैव नास्तीति व्याहतमेतत् । यदि
(खो० व्या०) अस्त्येव । उक्तं च न्यायवादिना-धर्मकीर्तिना-पररूपं-व्यावृत्तस्वलक्षणं १५ स्वरूपेण प्रतिभासेन ययासंत्रियते-अच्छाधते धिया-बुद्ध्या एकार्थप्रतिभासिन्या एकाकारया भावानाश्रित्य भेदिनः स्खलक्षणान्यधिकृत्योत्पन्नया तयाधिया संवृत्तनानात्वाः किंविशिष्टया संवृत्त्या संब्रियतेऽनया स्खलक्षणमिति कृत्वा भेदिनः स्वयमसाधारणात्मानः अमेदिन इव-संसृष्टा इव आभान्ति भावा रूपेण केनचित्-विजातीयव्यावृत्त्युपलक्षितेन घटत्वादिना तस्याः- २० बुद्धेरभिप्रायवशात्-एकाकाराध्यारोपवशात् सामान्यं सदिति प्रकीर्तितं बुद्ध्यारोपित एकाकारः सामान्यमुक्तम् । तदसत् परमार्थेन-वस्तुस्थित्या यथा सङ्कल्पितम्-आरोपितं तया-अधिकृतबुद्ध्या । इति एवं पूर्वपक्षमाशङ्कयाहएतदपि-अनन्तरोदितमपि अयुक्तम् । कथमित्याह-तत्त्वतः-परमार्थेन विहितोत्तरत्वात् । तदन्यदित्याशङ्कयाह-तदुक्तिमात्रभेदात् तस्मादुक्तादुक्तिमात्रेण २५ भेदादस्य । एतदुपदर्शनार्यवाह-तथाहीत्यादि । तथाहि यद् रूपं तद् बुद्धौ प्रतिभासते, तथाभूतं नास्तीत्यवस्तुत्वमुक्तम् । तच्चावस्त्वित्यनेन तत् क नास्ति रूपम् ? किं तदू बुद्धावेव नास्ति आहोखिद् बहिर्नास्तीति ? । किश्चातः? उभयथाऽपि दोष इत्याह-यदि तद् बुद्धावेव नास्ति तंत्र-बुद्धौ प्रतिमासते
१-३ अनुष्टुप् । ४ ३४६तमे पृष्ठे । ५ 'तत्र नास्ति' इति क-पाठः। ६ तबुद्धौ' इविम-पाठः।