________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[चतुर्थः
सम्यग्निश्चयानभिधानात्, खकुसुमरूपं वन्ध्यासुतबुद्ध्या निश्चीयत इति तत्त्वतोऽभिधानाविशेषात् , अन्यथा बलात् तद्भावापत्त्या ५अनयोः परिकल्पितत्वाभाव इति परिचिन्त्यतामेतत् । निश्चय उपलम्भः संविदित्यनान्तरम् । न च संविदोऽप्यवस्तुत्वमनभ्युपगमात् शून्यतापत्तेः स्वसंविदितरूपा च बुद्धिः बुद्धिखभावं च तत्, न चाधिकं तत्र किचिदिति कथमवस्तुत्वं नाम?। एवं च पूर्वोक्तदोषानतिवृत्तिरेव । आह-यद् रूपं तद् वुद्धौ प्रतिभासते, तथाभूतं १० नास्तीत्यवस्तुत्वम् । तथाहि-तदव्यतिरिक्तमपि व्यतिरिक्तमिवासाधारणमपि साधारणमिव अनर्थक्रियाकार्यपि तत्कारीवावभासते, तथा तन्नास्तीत्यवस्तुत्वं प्रतिभासतया त्वस्त्येव । उक्तं
(खो० व्या०) इत्याह-सम्यग्निश्चयानभिधानात् । अनभिधानं च खकुसुमरूपं १५वन्ध्यासुतबुद्ध्या निश्चीयत इति-एवं तत्त्वतोऽभिधानाविशेषात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा-एवमनभ्युपगमे बलात् तद्भावापत्न्याबुद्धिपरिकल्पितरूपस्य भावापत्त्या अनयो:-बुद्धिपरिकल्पितरूपशब्दयोः परिकल्पितत्वाभाव इति परिचिन्त्यतामेतत्, वास्तवसम्बन्धसिद्धिरित्यर्थः । एतत्समर्थनार्यवाह-निश्चय उपलम्भः संविदित्यनान्तरम् । न च २० संविदोऽप्यवस्तुत्वमनभ्युपगमात् । अनभ्युपगमश्च शून्यतापत्तेः सर्वाभावेन । यदि नामैवं ततः किमित्याह-वसंविदितरूपा च बुद्धिः सामान्येन बुद्धिखभावं च तत्-बुद्धिपरिकल्पितं रूपं न चाधिकं तत्र-बुद्धौ किञ्चिदिति-एवं कथमवस्तुत्वं नाम? बुद्धिपरिकल्पितस्य रूपस्य नावस्तुत्वम् । एवं च पूर्वोक्तदोषानतिवृत्तिरेव 'न ह्यन्यत्र कृतसमयाद् ध्वनेः' इत्यादिदोषानतिवृत्ति२५ रेव । आह-यद् रूपं तत्, सामान्यमिति प्रक्रमः, बुद्धौ-अधिकृतविकल्पबुद्धौ
प्रतिभासते तथाभूतं नास्तीति कृत्वा अवस्तुत्वं तस्य । एतदेव भावयति तथाहीत्यादिना । तथाहीति पूर्ववत् । तदव्यतिरिक्तमपि, बुद्धेरिति प्रक्रमः, व्यतिरिक्तमिव-अर्थान्तरमिव असाधारणमपि बुद्धिव्यतिरेकेण साधारणमिवानर्थक्रियाकार्यपि अस्खलक्षणरूपतया तत्कारीवावभासते, तथा-तेन ३० प्रकारेण तत्-रूपं नास्तीत्यवस्तुत्वं तथा प्रतिभासतया तु यथोक्तलक्षणया
१ 'मिवमेवानर्थः' इति क-पाठः। २ 'तयाऽस्येव' इति ग-पाठः। ३ दृश्यता ३४५तम पृष्ठम्। ४"बुमव्यति' इति उ-पाठः। ५ 'तत्कारी चाव.' इति क-पाठः ।