________________
अधिकारः ]
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् ( मूलम् )
नापि परिदृष्टेषु तत्रापि दोषात् । तथाहि - परिदृष्टविकल्पसङ्केतविधौ सङ्केतका य एव नोपलब्धो विकल्पस्तत्रैव ततः शब्दात् प्रवृत्तिर्न भवेत् । न ह्यन्यत्र कृतसमयाद् ध्वनेरन्यत्र प्रवर्तनं ५ युक्तम्, यथा केसरादिमतिभावे गोशब्दात्, ततश्च निष्प्रयोजन एव सङ्केतः, तत्समयोपलब्धस्यासंसारमपि पुनरनुपलम्भाच ॥
स्यादेतत् न हि स्वसंविद्रूपेषु बोधमात्रविशेषेषु सङ्केतः, अपि तु बुद्धिपरिकल्पिते रूपे तच्चावस्त्विति यथोक्तदोषानुपपत्तिः । एतदपि यत्किञ्चित्, वुद्धिपरिकल्पितस्य रूपस्यावस्तुत्वेनासत्त्वात् १० निश्चयाभावतः सङ्केतासिद्धेरिति । आह- बुद्धिपरिकल्पितं रूपं परिकल्पितयैव बुद्ध्या निश्चीयत इति निश्चयाभावादित्यसिद्धम्, न, ( स्वो० व्या० ) विधिः सामान्येन । यथा विनष्टानुत्पन्नेष्विति निदर्शनम् । नोपलभ्यन्ते च देशकालविप्रकृष्टा विकल्पा इति पक्षधर्मोपसंहारः । अतो न तेषु सङ्केत इति १५ द्वितीयं विकल्पमधिकृत्याह - नापि परिदृष्टेषु - विकल्पेषु । ' वाचकत्वनियोगो ध्वनीनाम्' इति वर्तते । कुत इत्याह- तत्रापि - परिदृष्टविकल्पेषु दोषाद वाचकत्वनियोगे ध्वनेः । एनमेवाह तथा हीत्यादिना । तथाहि - परिदृष्टविकल्पसङ्केतविधौ इष्यमाणे सङ्केतकाले य एव नोपलब्धो विकल्पस्तत्रैव-विकल्पे ततः शब्दात् - सङ्केतितात् प्रवृत्तिर्न भवेत् । एतदेव भावयन्नाह - न ह्यन्यत्र कृत - २० समयाद् ध्वनेः-शब्दादन्यत्र प्रवर्तनं युक्तं यथा केसरादिमतिभावेसिंहादौ गोशब्दात्, ततञ्च एवं च सति निष्प्रयोजन एव सङ्केतः । उपचयमाह-तत्समयोपलब्धस्य - सङ्केतसमयोपलब्धस्य आसंसारमपियावदपि संसारः तावदपि पुनरनुपलम्भाच इति ॥
स्यादेतत् न हि स्वसंविद्रूपेषु बोधमात्रविशेषेषु सङ्केतः, अपि तु २५ बुद्धिपरिकल्पिते रूपे सङ्केतः तच्च - बुद्धिपरिकल्पितं रूपमवस्त्विति कृत्वा यथोक्तदोषानुपपत्तिः । एतदाशङ्कयाह-एतदपि यत्किञ्चित् - असारम् । कुत इत्याह- बुद्धिपरिकल्पितस्य रूपस्यावस्तुत्वेन हेतुना असत्त्वात् कारणात् निश्वयाभावतः - निश्चयाभावेन सङ्केतासिद्धेरिति । आहबुद्धिपरिकल्पितं रूपं परिकल्पितयैव बुद्ध्या निश्चीयत इति कृत्वा ३० निश्वयाभावादित्यसिद्धं यदुक्तं प्राक् । एतदाशङ्कयाह-न-नैतदेवम् । कुत
१ प्रेक्ष्यतां ३४४तमं पृष्ठम् । अनेकान्त • ४४
३४५