________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[ चतुर्थः (मूलम्) तैलप्रभवदीपाच तैलानुत्पत्तेरिति व्यभिचार एव । न च गृहीतस्ते वचनतोऽभिप्राय इति लोकप्रतीतिस्तदसन्देहे निमित्तम् , अभ्युपगम५ विचारात् । तेन चोक्तवत् तदसिद्धरित्यतितुच्छमेतत् । यच्चोक्तम्'वस्तूनामानन्त्याद् व्यवहारानुपयोगात्' इति तदपि न दोषकृत्, तुल्यत्वात् । तथाहि-न विकल्पबुद्धिप्रतिभासोऽन्य एव विकल्पेभ्योऽपितु विकल्पा एवाते च भूयांसस्तत्त्वतो बोधमानविशेषा इति,
सर्वेषु वा देशकालखभावविप्रकर्षवत्सु विकल्पेषु वाँचकत्वनियोगो १० ध्वनीनां परिदृष्टेषु वा । न तावत् सर्वेषु, आनन्त्यादनुपलब्धेः । इह
ये नोपलभ्यन्ते न तेषु ध्वनीनां समयविधिः, यथा विनष्टानुत्पन्नेषु, नोपलभ्यन्ते च देशकालविप्रकृष्टा विकल्पा इति न तेषु सङ्केत्ता;
(स्वो० व्या०) तदुपलब्धिः असावेव प्रमाणं नात्रापि तदभावः । इति चेत्, एतदाशङ्याह१५ न, कचिदसम्भवादित्युक्तं प्राक् । उपचयान्तरमाह-तैलप्रभवदीपाच तैलानुत्पत्तेः कारणात् इति-एवं व्यभिचार एव । न चेत्यादि । न च गृहीतस्ते तव परमाह-वचनतोऽभिप्राय इति-एवं लोकप्रतीतिस्तदसन्देहे-तदाकारादिविकल्पासन्देहे निमित्तम् । कुत इत्याह-अभ्युपगमविचारात् तेन च-अभ्युपगमेन उक्तवत्-यथोक्तं तथा तदसिद्धेः-प्रस्तुतासन्देहा२० सिद्धेरिति-एवमतितुच्छमेतत् । यच्चोक्तं पूर्वपक्षग्रन्थे एव । यदुक्तं तदाह'वस्तूनामानन्त्याद् व्यवहारानुपयोगादित्येतत् तदपि न दोषकृत्-न दोषकरणशीलम् । कुत इत्याह-तुल्यत्वात् । यश्चोभयोर्दोषो न तत्रैकश्वोद्यो भवति । तुल्यत्वमेवाह-तथाहि-न विकल्पबुद्धिप्रतिभासोऽन्य एव, विकल्पेभ्यः सकाशादपि तु विकल्पा एव । ते च-विकल्पा भूयांसस्तत्त्वतो बोधमात्र२५ विशेषा इति कृत्वा सर्वेषु वा देशकालस्वभावविप्रकर्षवत्सु विकल्पेषु
वाचकत्वनियोगोध्वनीनां परिदृष्टेषु वा कतिपयेषु । किच्चातः ? उभयथाऽपि दोष इत्याह-न तावत् सर्वेषु-देशादिविप्रकर्षवत्सु विकल्पेषु वाचकत्वनियोगो ध्वनीनाम् । कुत इत्याह-आनन्त्यात् कारणात् अनुपलब्धेः सर्वविकल्पानाम् । एतदेव प्रमाणेनाह-इह ये नोपलभ्यन्ते केचन भावा न तेषु ध्वनीनां समय.१३१९तमे पृष्ठे। २ 'भूयांसस्तथालतो' इति ग-पाठः। ३ 'वाचकले नियोगो' इति गपाठः । ४ 'संयम विधिः' इति ग-पाठः। ५३४३तमे पृष्ठे। ६३१९तमे पृष्ठे। 'तमेकश्चोद्यो इति -पाठः।