________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
३४३ (मूलम्) कचिदसम्भवात् , गम्भीरशास्त्रश्रवणादौ तथोपलब्धेः, अन्यथा तदनवगमाभावात् , अभ्युपगमे च प्रतीतिविरोधः, कचित् सम्भवे अपि तदवगमासम्भवाच, परचेतसोऽप्रत्यक्षत्वात् तदाकारोऽतदा-५ कार इति सन्देहात् । वात्मनि ततस्तदाकारविकल्पोत्पत्त्या तत्तजननखभावत्वावगतेनै सन्देह इति चेत्, न, कचिदसम्भवादित्युक्तम् । न च यादृशाद् यः समुत्पन्नः 'स तादृशस्यैव हेतुरित्यसन्देहे निमित्तम्, व्यभिचारभावाद् गोमय-गोलोमादिप्रभवेभ्यः शालूक-दूर्वादिभ्यः पुनस्तदनुत्पत्तेः। तथाविधसामग्र्यभावतो न . तदुत्पत्तिरिति चेत्, तत्रापि न तदभाव इति न प्रमाणम् । श्रोतृतदुपलब्धिरेव प्रमाणमिति चेत्, न, कचिदसम्भवादित्युक्तम् ।
(खो० व्या०) श्रोतृविकल्पस्य, असम्भवश्व गम्भीरशास्त्रश्रवणादौ गम्भीरशास्त्रमतिगहनम् । 'आदि'शब्दान्निपुणाभिधानग्रहः । तथोपलब्धेः-वक्तृविकल्पसदृशश्रोतृविकल्पा- १५ सम्भवोपलब्धेः । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा-एवमनभ्युपगमे तदनवगमाभावात् तस्य-श्रोतुरनवगमाभावो वक्तृविकल्पसदृशविकल्पोत्पादे । अभ्युपगमे च अनवगमाभावस्य प्रतीतिविरोधः, क्वचिदनवगमप्रतीतेः । दूषणान्तरमाह-कचित् सम्भवेऽपि वक्तृविकल्पसदृशश्रोतृविकल्पस्य तदव. गमासम्भवाच । असम्भवश्व परचेतसः अप्रत्यक्षत्वात् । अप्रत्यक्षत्वे २० च तदाकारोऽतदाकार इति सन्देहात् । स्वात्मनि ततः-शब्दात् तदाकारविकल्पोत्पत्त्या करणभूतया तत्तजननवभावत्वावगतेः तस्यशब्दस्याधिकृतविकल्पजननस्वभावत्वावगतेः कारणात् न सन्देह इति चेत् तजननस्वभावो हि तदेव जनयतीति कृत्वा । एतदाशङ्कयाह-न, कचिदसम्भवात् इत्युक्तमधः । न च याशाद् विकल्पाद् यः समुत्पन्नः शब्दः स २५ तादृशस्यैव विकल्पस्य हेतुरित्यसन्देहे निमित्तं सामान्येन । कुत इत्याहव्यभिचारभावात् । भावश्च गोमय-गोलोमादिप्रभवेभ्यः शालूकदूवादिभ्यः पुनस्तदनुत्पत्तेः-गोमय-गोलोमाधनुत्पत्तेः । तथाविधसामग्यभावतः कारणात् न तदुत्पत्तिः-गोमयगोलोमाधुत्पत्तिः । इति चेत्, एतदाशङ्कयाह-तत्रापि-शब्दविकल्पचिन्तायां न तदभाव इति न-तथाविध-३० सामग्र्यभाव इति न प्रमाणम् । श्रोतुस्तदुपलब्धिस्तथाविधविकल्पोत्पादेन श्रोतृ१ 'स' इति पाठो नास्ति ग-प्रतौ । २ 'कल्पोपादेन अभ्यु०' इति ङ-पाठः । ३ अस्मिन्नेव पृष्ठे ।