________________
३४२
अनेकान्तजयपताकाख्यं प्रकरणम्
[चतुर्थः (मूलम्) दृष्टेष्टविरोधः, धूमादिमात्रग्रहणादेव तस्य वयादिजन्यखभावतया तथैवावगतेः। अविनाभावग्रहणमन्तरेण 'नालिकेर'द्वीपवासिनोऽपि ५धूमध्वजादिप्रतिपत्त्यापत्तेः। न चेयमेवमिति न तत्वभावावगतिरिति न तज्जन्यजनकताग्राहि परमार्थसत् तथाविधज्ञानमस्ति । किश्च तथाभूतस्यैव श्रोतृविकल्पस्य जनकः' इत्येतदध्ययुक्तम् ,
(खो० व्या०) रेण संवलितं तदयोगात्-तत्स्वभावावगत्ययोगात् । तस्य च-इतरेतरग्रहणस्य ०क्षणिकवादेऽभावात् । तथापि-ऐवमितरेतरग्रहणमन्तरेणापि तदभ्युपगमेतत्स्वभावावगत्यभ्युपगमे । किमित्याह-दृष्टेष्टविरोधः । एनमेवोपदर्शयति धूमादीत्यादिना । धूमादिमात्रग्रहणादेव सकाशात् तस्य-धूमादेवयादिजन्यखभावतया कारणात् तथैव-वह्नयादिजन्यस्वभावतयैव अवगतेहेतोः । किमित्याह-अविनाभावग्रहणमन्तरेण 'नालिकेर'द्वीपवासिनोऽपि प्र१५ मातुः धूमध्वजादिप्रतिपत्त्यापत्तेः । धूमध्वजः-अग्निः । 'आदि'शब्दादुभयत्र
कार्यकारणान्तरपरिग्रहः । न चेत्यादि । न च इयं-धूमध्वजादिप्रतिपत्तिः एवं-धूममात्रग्रहणादेव इति एवं न तत्स्वभावावगतिरिति कृत्वा न तज्जन्यजनकताग्राहि-न शब्दविकल्पजन्यजनकताग्राहि परमार्थसत्-अविकल्पकमधिकृतनिश्चयनिबन्धनं ज्ञानमस्तीति निगमनम् ॥ २० अभ्युच्चयमाह किश्चेत्यादिना । किञ्च तथाभूतस्यैव श्रोतृविकल्पस्य जनकः शब्द इत्येतदप्ययुक्तम् । कुत इत्याह-कचिदसम्भवात् तथाभूतस्यैव
(विवरणम्) (१६-१७) उभयत्र कार्यकारणान्तरपरिग्रह इति । उभयत्र-केवलकारणग्रहणे केवलकार्यग्रहणे च सति कार्यान्तरस्य-धूमव्यतिरिक्तस्यामिसम्बन्धिनो दाहादेः कार२५ णान्तरस्य च-अग्निव्यतिरिक्तस्य धूमसम्बन्धिनः काष्ठादेः परिग्रहः । अयमभिप्राय:
केवलं पावकं समालोक्य तदुत्थधूमादिसर्वकार्यावगमः प्रमातुः प्राप्नोति, तजनकस्वभावत्वात् तस्य तथा धूमादिकं कार्यं दृष्ट्वा तज्जनकानां पावकादीनां सर्वेषामप्यवगमः प्रसज्यते, तजन्यत्वात् तस्य ।
१'मार्थसतस्तथा०' इति ग-पाठः। २ द्रष्टव्यं ३३७तम पृष्ठं ३४१तमं वा। ३ 'एक्मेवेतरेतर.' इति -पाठः। ४ 'कारणेन' इति ङ-पाठः। ५ कार्यकरणा.' इति ऊ-पाठः। ६ 'प्रसज्यते तावजन्य.' इति ऊ-पाठः।