________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् ३४१
(मूलम्) न चैकचन्द्रवदर्थोऽपि कथश्चिदस्य विषय इष्यते, अभ्युपगमे चाप. चते बलात् कथञ्चिच्छन्दविषयोऽर्थ इति यत्किश्चिदेतत् । न 'चासौ शब्दो यथाभूतादेव वक्तृविकल्पादुत्पद्यते, तथाभूतस्यैव श्रोतृवि-५ कल्पस्य जनकः' इति एतदप्यालोचिताभिधानम् , तज्जन्यजनकताग्राहिणः परमार्थसतस्तथाविधविज्ञानस्याभावात्, क्षणिकत्वेन उभयोर्ग्रहणासिद्धेः, तदग्रहे च तथानिश्चयायोगः, तत्तत्स्वभावतयां क्षणिकेनापि तत्वभावावगतेः, अन्यथा तदग्रहणप्रसङ्गान्निश्चय इति चेत्, न, तत्वभावावगत्यसिद्धेः, इतरेतरग्रहणमन्तरेण . तदयोगात्, तस्य च क्षणिकवादेऽभावात्, तथापि तदभ्युपगमे
(खो० व्या०) न चेत्यादि । न च एकचन्द्रवदिति निदर्शनं व्यतिरेकेण, अर्थोऽपि कथचित्-केनचित् प्रकारेण अस्य-अधिकृतविकल्पस्य विषय इष्यते परैः, अभ्युपगमे च अर्थस्याधिकृतविकल्पविषयतया किमित्याह-आपद्यते बलात् १५ कथञ्चित् केनचित् प्रकारेण । किमित्याह-शब्दविषयोऽर्थ इति-एवं यत्किश्चिदेतत्-असारम् । न चासौ शब्दः प्रस्तुतः यथाभूतादेव-अनन्तरोदिताद् वक्तृविकल्पादुत्पद्यते तथाभूतस्यैव श्रोतृविकल्पस्य जनक इत्येतदपि-पूर्वपक्षवचनमालोचिताभिधानम् । कुतो न चेत्याह-तजन्यजनकताग्राहिणः तयोः-शब्द-विकल्पयोर्जन्यजनकतावाहिणः परमार्थसतः- २० अपरिकल्पितस्य तथाविधविज्ञानस्य-अधिकृतनिश्चयहेतोरभावात् । अभावश्च क्षणिकत्वेन हेतुना उभयोः-शब्दविकल्पयोर्ग्रहणासिद्धेः, साकल्येनेत्यभिप्रायः। तदग्रहे च-साकल्येन शब्दविकल्पाग्रहे च तथा-तेन प्रकारेणासौ शब्दो यथाभूतादेवेत्यादिना निश्चयायोगः। तत्तत्वभावतया तयोः-शब्द-विकल्पयोरधिकृतजन्यजनकस्वभावतया कारणेन क्षणिकेनापि विज्ञानेन तत्वभावावगतेः-२५ शब्दविकल्पस्वभावावगतेः । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा-तत्तत्स्वभावावगतिमन्तरेण तदग्रहणप्रसङ्गात्-प्रस्तुतशब्दविकल्पाग्रहणप्रसङ्गात् कारणात् निश्चय इति चेत्, तथा निश्चयः । एतदाशझ्याह-न, तत्वभावावगत्यसिद्धेः-प्रस्तुतशब्दविकल्पस्वभावावगत्यसिद्धेः । असिद्धिश्च इतरेतरग्रहणमन्त
१ द्रष्टन्यं ३३७तम पृष्ठम्।
२ 'तत्तत्स्वभावा०' इति क-पाठः ।