________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[पतुः
'तैमिरकद्वयद्विचन्द्रप्रतिपादन'न्याये तु निर्विषयविज्ञानविषयत्वात् सर्वशब्दानां तन्मात्राभिधानात् प्रतीत्यन्तराभावाद् बहि५रर्थग्रहेभिमानानुपपत्तेः तदेकखभावत्वाभ्युपगमात् स्वसंवे. दनमात्रस्वभावत्वेनास्यान्तर्मुखावभासित्वतो बहिर्मुखावभासित्वविरोधात् । लोके तु तैमिरकाद्वय]ज्ञानस्यानेकखभावतया तैमिरिकचन्द्रादिहेतुसामर्थ्यतस्तथात्वाविरोधात् एकचन्द्रस्यापि तद्विषयत्वात्
तदभावेऽभावात् तथापि तदहेतुत्वकल्पनेऽतिप्रसङ्गादिति परमत एव १० बहिरर्थग्रंहेऽभिमानानुपपत्तिरिति न युक्तियुक्तं विषयप्रवृत्त्यादि ।
(थो० व्या०) 'तैमिरिकद्वयद्विचन्द्रप्रतिपादन'न्याये तु पूर्वपक्षोपन्यस्ते किमित्याह-- 'न युक्तियुक्तं विषयप्रवृत्त्यादि' इति महासम्बन्धः । कुत इत्याह-निर्विषयविज्ञानविषयत्वात् कारणात् सर्वशब्दानां-घटोऽयमित्यादीनां तन्मात्रा१५ भिधानात्-निर्विषयविज्ञानमात्राभिधानात् प्रतीत्यन्तराभावात् शब्दात् । किमित्याह-बहिरर्थग्रहेऽभिमानानुपपत्तेः । एतत्समर्थनार्यवाह-तदेकरखभावत्वाभ्युपगमात् तस्य-शब्दाभिधेयस्य निर्विषयविज्ञानस्य एकस्वभावत्वाभ्युपगमात् परेण । यदि नामैवं ततः किमित्याह-स्वसंवेदनमात्रस्वभावत्वेन
अस्य-निर्विषयविज्ञानस्य अन्तर्मुखावभासित्वतः कारणाद् बहिर्मुखाव२० भासित्वविरोधात् । न हि दृष्टेऽनुपपन्नं नाम बहिर्मुखावभासमपि निर्विषयमेव लोके ज्ञानमुपलभ्यत इति कृत्वा । एतदाशङ्कापोहायाह-लोके त्वित्यादि । लोके पुनस्तैमिरिकज्ञानस्य, प्रक्रमात् द्विचन्द्रप्रतिभासिनः, अनेकखभावतया कारणेन तिमिरैक(?)चन्द्रादिहेतुसामर्थ्यतः कारणात् , 'आदि'शब्दान्मिथ्याज्ञानावरणक्षयोपशमग्रहः । किमित्याह-तथात्वाविरोधात्-बहिर्मुखावभासित्वा२५ विरोधात् । कथमित्याह-एकचन्द्रस्यापि तद्विषयत्वात्-प्रक्रान्ततैमिरिकज्ञानविषयत्वात् , विषयत्वं च तदभावेऽभावात्-एकचन्द्राभावेऽभावात् तैमिरिकद्विचन्द्रज्ञानस्य, तथापि तदभावाभावेऽपि तदहेतुत्वकल्पने-एकचन्द्रमसः अहेतुत्वकल्पनेऽधिकृततैमिरिकज्ञानं प्रति अतिप्रसङ्गात् अतैमिरिकचन्द्रज्ञानस्यापि तद्विषयत्वायोगात् इति-एवं परमत एव-एकान्तैकखभाववादिमत एव, न तु ३० लोके । किमित्याह-बहिरर्थग्रहेऽभिमानानुपपत्तिरिति कृत्वा न युक्तियुक्तं विषयप्रवृत्त्यादि । 'आदि'शब्दात् प्रात्यादिग्रहः ॥
१ 'हेतुकत्व० इति पाठः क्वचित्' इति क-प्रतौ टिप्पणकम् । २ 'ग्रहामिमाना०' इति ग-पाठः। 'बहिर्मुखावभासित्वतः कारणात्' इत्यधिकः क-पाठः। ४ 'ननु लोके इति उ-पाठः।