________________
अधिकारः]
स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
३३९
इत्यस्तु विषयेऽपि सङ्केतः, विषयविकल्पविवक्षाप्रयत्नभाषाद्रव्यादिविशेषेभ्यस्तजन्मोपपत्तेः । घटोऽयमानय चैनमित्यादौ तथादर्शनात्, इत्थम्भूतस्यान्यतरवैकल्येऽप्यभावात्, भाविनश्चेत्थम्भूत-५ त्वानुपपत्तेः, तेन व्यभिचारायोगात्, ताहशस्य विकल्पमात्रा. भिधायित्वेऽप्यदोषात्, प्रमाणाभासवत् तदाकारत्वेऽपि विशिष्टकार्यासाधनत्वात् । इति युक्तियुक्तं सच्छन्दादाविद्वदङ्गानादिप्रतीत विषयप्रवृत्त्यादि ॥ (स्वो० व्या०)
१० विकल्पवत्, निमित्तान्तरावगमनिमित्तत्वेन विरोध इति कृत्वा। किमित्याहअस्तु विषयेऽपि सङ्केतः । कस्मादित्याह-विषयविकल्पविवक्षाप्रयत्नभाषाद्रव्यादिविशेषेभ्यः सकाशात् तजन्मोपपत्तेः-शब्दोत्पत्युपपत्तेः । उपपत्तिश्चैयमित्याह-घटोऽयमानय चैनमित्यादौ तथादर्शनात्-विषये सङ्केतदर्शनात् प्रतीतिप्रवृत्त्यादेरिति गर्भः । विषयमन्तरेणापि डित्थादिशब्दानां जन्म १५ दृश्यत इत्यारेकापोहायाह-इत्थम्भूतस्य विशिष्टस्य शब्दस्य घटोऽयमित्यादेरन्यतरवैकल्येऽपि-विषयाधभावेऽपि अभावात्, भाविनश्च अन्यतरवैकल्ये इत्थम्भूतत्वानुपपत्तेः-विषयादिविशेषजन्मत्वानुपपत्तेः, तेन-अन्यतवैकल्यभाविना शब्देन व्यभिचारायोगात् । तादृशस्य-अन्यतरवैकल्यभाविनः किमित्याहविकल्पमात्राभिधायित्वेऽप्यदोषात् । कथमदोष इत्याह-प्रमाणा-२० भासबदिति निदर्शनम् । तदाकारत्वेऽपि-शब्दाकारत्वेऽपि विशिष्टकार्यासाधनत्वात् विकल्पमात्राभिधायिनः शब्दान्तरस्य प्रमाणाभासमपि च प्रमाणाकारमेवेति भावनीयम् । इति एवं युक्तियुक्तं सच्छब्दाद् विषयादिविशेषजन्मन आविद्वदङ्गनादिप्रतीतं विषयप्रवृत्त्यादि । 'आदि'शब्दात् प्राप्त्यादिग्रहः ॥
(विवरणम्) (११) निमित्तान्तरावगमनिमित्तत्वे न विरोध इति । तथाहि-घटादेः शब्दस्य निमित्तमात्रभूतवक्तगतविकल्पावगमनिमित्तत्वे न कश्चिद् विरोधः । एवमेव निमित्तान्तराणां-शब्दकारणानां विषयादीनामवगमस्य-बोधस्य निमित्तत्वे न कश्चिद् विरोधः । एवमेव ध्वनेर्न कश्चिद् विरोधो वर्तते । अतो यथा ध्वनेः सकाशाद् विकल्पावगमो भवत्येवं विषयावगमोऽपीत्यर्थः ॥ ... १ 'मानयैव चैन.' इति ग-घ-पाठः। २ 'तरवैकल्पेऽपि' इति क-ड-पाठः । ३ 'वैकल्पे' इति क-अ-पाठः। ४ 'वैकल्पभाविता' इति क-उ-पाठः।