________________
[चतुर्थः
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम्) किमेतदिति सङ्केत्य इतरोऽप्येवमित्यदः । न कल्पयति यावद्धि तावन्न समयोद्भवः ॥३॥ वक्तुः श्रोतुश्च तुल्याभे बुद्धी तेनैकगोचरे । तत्वेन बहिरर्थोऽस्ति न कश्चिच्छन्दगोचरः॥४॥ खवुद्धिप्रतिभासस्य संवित्तावपि जायते।
बहिरर्थग्रहे मानस्तुल्यतैमिरवुद्धिवत् ॥५॥ इति ॥ एतदपि यत्किञ्चित् , अविचारितरमणीयत्वात्, शब्दस्य १० विकल्पमात्रतो जन्मासिद्धेः, तद्भावेऽपि मूकादिषु तददर्शनात्,
समग्रकारणस्य च कार्याव्यभिचारात्, अन्यथा समग्रत्वानुपपत्ते, निमित्तमात्रत्वे चास्य तद्वन्निमित्तान्तरावगमनिमित्तत्वे न विरोध
(खो० व्या०) रूपमधिकृत्याह-इति-एवं सङ्केत्यः पुमान् इतरोऽपि सङ्केतक एवमित्यदः१५ एवमेतत् । न कल्पयति यावद् यस्मात् तावन्न समयोद्भवः-न सङ्केतजन्म ।३। यत एवं वक्तुः श्रोतुश्च द्वयोरपि तुल्याभे-समानाकारे बुद्धी तेन कारणेन एकगोचरे 'अपोह्यार्थापेक्षया । तत्त्वेन-परमार्थेन बहिरर्थोऽस्ति न कश्चिच्छब्दगोचरः।४। कथं बाह्ये अभिमान इत्याह-खबुद्धिप्रतिभासस्य
खबुद्ध्याकारस्य अपि संवित्तौ जायते, बहिरर्थग्रहे मानस्तुल्यतैमिरबुद्धि२० वत् । तैमिरिको हि तैमिरिकस्य चन्द्रद्वयं प्रतिपादयति स खबुद्धिप्रतिभासमितरोऽपि खबुद्धिप्रतिभासमेव प्रतिपद्यते बाह्यस्य चन्द्रद्वयस्याभावादिति भावना इति ॥
एवं पूर्वपक्षमधिकृत्याह-एतदपि यत्किश्चित्-असारम् । कुत इत्याहअविचारितरमणीयत्वात् । एतदेवाह-शब्दस्य विकल्पमात्रतः सकाशात् जन्मासिद्धेः । असिद्धिश्च तद्भावेऽपि-विकल्पमात्रभावेऽपि मूकादिषु२५वक्तृषु, 'आदि'शब्दादवकृविकल्पवद्हः, तददर्शनात्-शब्दाश्रुतेः । नावश्यं कारणानि कार्यवन्ति भवन्तीत्याशङ्कयाह-समनकारणस्य च कार्याव्यभिचारात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा-एवमनभ्युपगमे समग्रस्वानुपपत्तेः, निमित्तमात्रत्वे चास्य-विकल्पस्य तद्वदिति निदर्शनं
१-३ अनुष्टुप् । ४ 'अपोत्यार्थोऽपेक्षया' इति क-पाठः । ५'तैमिरिकबुद्धि.' इति --पाठः । ६ 'बाह्यचन्द्र' इति ध-पाठः।