________________
अधिकारः]
स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
३३७
स्यादेतच्छब्दो हि विकल्पजन्मा विकल्पहेतुश्च वर्तते। यथोक्तम्
"विकल्पयोनयः शन्दा विकल्पाः शब्दयोनयः” इति । ततश्चासौ शब्दो यथाभूतादेव वक्तृविकल्पादुत्पद्यते-तथा- ५ भूतस्यैव श्रोतृविकल्पस्य जनक इति एतावताशेन तत्र सङ्केत इति प्रतिपाद्यते, न पुनः शृङ्गग्राहिकया क्रियते । तथा च 'तैमिरिकद्वयद्विचन्द्रप्रतिपादन'न्याय एवेहावितथशब्दार्थव्यवहार रनल्पधीधनैः प्रतिपादितः । यथोक्तम्
"रूपान्तरं विकल्पे यदुभयोः प्रतिभासते।। सत्यर्थे तत्र सङ्केत एकत्वाध्यवसायतः ॥१॥ यादृशाद यः समुत्पन्नः स भवत्येव कारणम् । तादृग्विधविकल्पस्य ध्वनिः सङ्केतसंस्थितिः॥२॥
(को० व्या०) स्यादेतत्-अथैवं मन्यसे शब्दो हि विकल्पजन्मा विकल्पहेतुश्च १५ वर्तते, विकल्पजनक इत्यर्थः । यथोक्तं भदन्तदिन्नेन-विकल्पयोनयः शब्दा विकल्पा:-शब्दविकल्पाः शब्दयोनय इत्यादि । ततश्चेत्यादि । ततश्च-एवं च सति असौ शब्दो यथाभूतादेव वक्तृविकल्पात्अघटाद्यपोहप्रतिभासिनः सकाशादुत्पद्यते, तथाभूतस्यैव श्रोतृविकल्पस्य जनको बीजाङ्कुरनीत्या । एतावताऽशेन तत्र सङ्केत इति प्रतिपाद्यते, २० न पुनः शृङ्गग्राहिकया क्रियते सङ्केतः । तथा चेत्यादि । तथा च 'तैमिरिकद्वयद्विचन्द्रप्रतिपादन'न्याय एवेह-अधिकारे अवितथशब्दार्थव्यवहारज्ञैः-पूर्वाचार्यैरनल्पधीधनैः प्रतिपादितः। यथोक्तं वार्तिकानुसारिणा शुभगुप्तेन-रूपान्तरं-खलक्षणादन्यत् विकल्पे यत्-सामान्यलक्षणाख्यं उभयोः-वक्तृ-श्रोत्रोः प्रतिभासते-स्फुरतीव सत्यर्थे अपोहाश्रये २५ तत्र-रूपान्तरे सङ्केतः एकत्वाध्यवसायतः, अर्थन रूपान्तरस्यैकत्वाध्यवसायेनेत्यर्थः । १। तथा याशादित्यादि । यादृशाद् विकल्पाद् यः समुत्पन्नः जातः स भवत्येव कारणं-निमित्तं श्रोतारमधिकृत्य ताहाविधविकल्पस्य ध्वनि:-शब्दः सङ्केतसंस्थितिरियमेव । २। किमेतद् बौद्धं
१ तथा चोक्तं' इति ग-पाठः। २ वक्त्र विकल्पा.' इति क-पाठः। ३ 'जन्म इति' इति क-पाठः। ४ अनुष्टुप् । ५ 'तथा' इत्यधिकः क-पाठः। ६ अनुष्टुप् । ७ 'एत[रदाशमाह (एता)वतांऽशेन' इति ङ-पाठः। ८'बौद्धः' इति ऊ-पाठः।
अनेकान्त• ४३