________________
३३६
अनेकान्तजयपताकाख्यं प्रकरणम् [चतुर्थः
(मूलम् ) इतश्च न विकल्पबुद्धिप्रतिभासे सङ्केतः, स्थितास्थितविकल्पायोगात् । न स्थिते, अक्षणिकत्वप्रसङ्गात् , नास्थिते, कर्तुमशक्यत्वात् । ५ तथा गृहीतेतरविकल्पानुपपत्तेः। न गृहीते, सन्तानान्तरवर्तिनोऽस्य ग्रहीतुमशक्यत्वात् । नागृहीते, अतिप्रसङ्गात् । तथा व्यवहारसम
समालोचनायोगाच । व्यवहारसमर्थत्वे तस्यार्थक्रियासमर्थत्वेन वस्तुत्वादु बाह्येऽनिमित्तो द्वेषः। तदसमर्थत्वे तु 'सङ्केतवैयर्थ्यम् । तद्वाच्यावाच्यखभावत्वचिन्तासिद्धेश्च । तच्छब्दवाच्यखभावत्वे, १० तस्य शब्दस्यापि तद्वाचकस्वभावत्वमिति वास्तवसम्बन्धसिद्धिः, अन्यथा सङ्केताभावः, अतिप्रसङ्गात् ॥
(खो० व्या०) इतश्चेत्यादिना । इतश्च-अस्माच कारणात् न विकल्पबुद्धिप्रतिभासे सङ्केतः। कुत इत्याह-स्थितास्थितविकल्पायोगात् । एनमेवाह-न स्थिते विकल्प५बुद्धिप्रतिभासे सङ्केतः । कुत इत्याह-अक्षणिकत्वप्रसङ्गात् उत्पन्नस्य स्थितिरिति कृत्वा । नास्थिते। कुत इत्याह-कर्तुमशक्यत्वात् । तथाहि-अस्थितो न किञ्चित् कथं तत्र सङ्केतः । उपपत्त्यन्तरमाह-तथा गृहीतेतरविकल्पानुपपत्तेः न विकल्पबुद्धिप्रतिभासे सङ्केत इति । एतदेवाह न गृहीते बुद्धिविकल्पप्रतिभासे सङ्केतः । कुत इत्याह-सन्तानान्तरवर्तिनोऽस्य-विकल्पबुद्धिप्रतिभासस्य २० ग्रहीतुमशक्यत्वात् । नागृहीते । कुत इत्याह-अतिप्रसङ्गात् अगृहीतत्वाविशेषेण यत्र केचित् कस्यचिच्छब्दस्य सङ्केतापत्तेः । उपपत्त्यन्तरमाह-तथा व्यवहारसमर्थासमालोचनायोगाच न विकल्पबुद्धिप्रतिभासे सङ्केतः । आधु विकल्पमधिकृत्याह-व्यवहारसमर्थत्वे तस्य-विकल्पबुद्धिप्रतिभासस्य
अर्थक्रियासमर्थत्वेन हेतुना वस्तुत्वात् कारणाद् बाधे-वस्तुनि अनिमित्तो २५ द्वेषः, स्वसंविदन्यत्वेन तस्यैव बाह्यत्वादित्यर्थः । तदसमर्थत्वे तु-व्यवहारासमर्थत्वे पुनः, प्रक्रमाद् विकल्पबुद्धिप्रतिभासस्य । किमित्याह-सङ्केतवैयर्थ्य व्यवहारार्थमस्य करणादिति । 'दोषान्तरमाह-तद्वाच्यावाच्यस्वभावत्वचिन्तासिद्धेश्च न विकल्पबुद्धिप्रतिभासे सङ्केतः । आद्य विकल्पमधिकृत्याह-तच्छन्दवाच्यखभावत्वे तस्य-विकल्पबुद्धिप्रतिभासस्य शब्दस्यापि तद्वाचकख३० भावत्वमिति कृत्वा । किमित्याह-वास्तवसम्बन्धसिद्धिः। अन्यथातच्छन्दवाच्यस्वभावत्वे तस्य किमित्याह-सङ्केताभावः । कथमित्याह-अतिप्रसङ्गात् । न हि घटः पटावाच्यस्वभावः सन् पटेन सङ्केत्यते इत्यतिप्रसङ्ग इति ॥ . १ 'वैयर्थं तद्वाच्या०' इति ग-पाठः । २ 'कचित् सङ्केता०' इति घ-पाठः । ३ 'दोषान्तरामेवाह' इति क-पाठः।