________________
स्वोपज्ञ व्याख्यामुनि चन्द्रीयविवरणयुतम्
(मूलम् )
कारतैवेति चेत्, किमियं तत्स्वसंवित्तेर्भिन्नाभिन्नेति वाच्यम् । अनिर्वचनीयेति चेत्, कथं तत्र सङ्केतः । तद्भेदाभेदाभ्यामनिर्वचनीया, नान्यथेति चेत्, किमिदमन्यथात्वं नाम ? । संवृत्त्या भाव इति ५ चेत्, न तर्हि परमार्थेनायमिति न तत्र सङ्केतः । अवस्तुन्येवायमिति चेत्, न वस्तुप्रतीतेः । भ्रान्ता खल्वियमिति चेत्, न अत्र प्रमाणम् । इतरत्रापि समानमिति चेत्, न तदनुभवफलसिद्धेः ।
अधिकार : ]
३३५
( स्वो० व्या० )
एतदाशङ्कयाह-किमियम् - अधिकृतैकाकारता तत्स्वसंवित्तेः - अधिकृत विकल्प - १० बुद्धिस्वसंवितेः भिन्नाभिन्नेति वाच्यम् । भेदे बहिस्तद्भावोऽभेदे स्वलक्षणवाच्यतेति । उभयपरिहारेणाह अनिर्वचनीया । इति चेत्, एतदाशङ्कयाह- कथं तत्र अनिर्वचनीयायां सङ्केतः । तद्भेदाभेदाभ्यां तस्याः -- तत्स्वसंवित्तेर्भेदाभेदाभ्यामनिर्वचनीया तदेकाकारता, नान्यथा । इति चेत्, एतदाशक्क्याहकिमिदमन्यथात्वं नाम यदधिकृत्योच्यते नान्यथेति ? | संवृत्या - अपरमार्थेन १५ भाव इति चेत्, अन्यथात्वं एतदाशङ्कयाह-न तर्हि परमार्थेनायं - भाव इति । न तत्र - सांवृते भावे सङ्केतः, अवस्तुत्वात् तस्येति भावः । अवस्तुन्येवायंसङ्केतः । इति चेत्, एतदाशङ्कयाह-न वस्तुप्रतीतेः, अर्थक्रियाकारिणि अध्यवसायादित्यर्थः । भ्रान्ता खल्वियमिति चेत् वस्तुप्रतीतिः, एतदाशङ्कयाहनात्र - भ्रान्ततायां प्रमाणमधिकृतप्रतीतेः, इतरत्रापि तदभ्रान्ततायामपि समान २० मेतद् यदुत नात्र प्रमाणम् । इति चेत्, एतदाशाह - नेत्यादि । न-नैतदेवं तदनुभवफलसिद्धेः तस्याः - प्रक्रमाच्छन्दनिमित्तवस्तुप्रतीतेरनुभवश्चार्थाध्यवसायलक्षणः, फलं च - तत्प्रवृत्त्यादीति विग्रहः, ताभ्यां सिद्धिस्ततः । दूषणान्तरमाह
,
( विवरणम् )
( ११-१२) भेदे बहिस्तद्भावोऽभेदे स्वलक्षणवाच्यतेति । यदि होकाकारता २५ विकल्पबुद्धिसंबित्तेः सकाशाद् भिन्नाऽभ्युपगम्यते तदा भेदे सति बहिस्तस्याःएकाकारताया भावः प्राप्नोति । सामान्यं वस्तुसद् बहिः प्राप्नोतीत्यर्थः । अथाभेदपक्षः कक्षीक्रियते तर्ह्यभेदे सत्येकाकारताया विकल्पबुद्धेः स्वसंविदा सह स्वलक्षणचाच्यता स्यात्, स्वसंविदो वाच्यत्वात् तस्याश्च स्वलक्षणत्वात् ॥
१ 'बुद्धिस्तु संवित्तेः' इति घ-पाठः । २ इति चेत्, न वस्तु०' इति घ ङ-पाठः । ३ 'तत्त्ववृत्त्यादि' इति घ- पाठः । ४ 'तस्याश्च लक्षण' च-पाठः ।