________________
३३४ . अनेकान्तजयपताकाख्यं प्रकरणम्
[ चतुर्थः (मूलम्) द्वितीयः, अन्यापोहनमन्यापोह इति कृत्वा यः सर्वत्राभेदेन व: पूर्वाचायैर्व्यवस्थाप्यते, प्रतिषेधमात्रस्य सर्वत्राविशेषात् , अत्रापि ५न सङ्केतो निःस्वभावत्वात् । आह च न्यायवादी___"अर्थानां यच्च सामान्यमन्यव्यावृत्तिलक्षणम् ।
यनिष्ठास्त इमे शब्दा न रूपं तस्य किश्चन ॥" इति । विकल्पबुद्धिप्रतिभासस्तु तृतीयः, अन्योऽपोयतेऽनेनेति
कृत्वा, अयं च शब्दस्य निबन्धनतयाऽभ्युपगम्यते, यदधिकृत्याह१० "विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः१२ इति । अयमप्युपप्लवत्वान्नास्त्येवेति कथमत्र सङ्केतः ? ॥
बहिरयं नास्ति विकल्पबुद्धिप्रतिभासस्त्वस्त्येव, तंत्र सङ्केत इति चेत् , कोऽयं विकल्पबुद्धिप्रतिभासः? । एते वृक्षादय इति तदेका
(खो० व्या०) १५ शब्दार्थमाह-अन्यापोहनमन्यापोह इति कृत्वा यः सर्वत्राभेदेन व:
युष्माकं पूर्वाचार्यैः-भदन्तदिनप्रभृतिभिर्व्यवस्थाप्यते "अयमप्यघटो न भवत्ययमप्यघटो न भवति" इत्यादिना । अत एवाह-प्रतिषेधमात्रस्य सर्वत्राविशेषात् , अत्रापि-अपोहे न सङ्केतो निःस्वभावत्वादस्य । आह च न्यायवादी-धर्मकीर्तिः-अर्थानां-घटादीनां यच सामान्यमन्यव्या२० वृत्तिलक्षणं यनिष्ठास्त इमे शब्दाः-घटादयः तस्य रूपं न किश्चनेति निःस्वभावत्वसिद्धिः । विकल्पबुद्धेः प्रतिभासो विकल्पबुद्धिप्रतिभासः, विकल्पबुद्धिप्रतिभासस्तु स्थूलाकारः तृतीयोऽपोहः । शब्दार्थमिहाह-अन्योऽपोह्यतेऽने. नेति कृत्वा । अयं च-अपोहः शब्दस्य निबन्धनतयाऽभ्युपगम्यते परैः यदधिकृत्याहाचार्यः-विकल्पयोनया-विकल्पकारणाः शब्दाः, विकल्पाः २५ शब्दयोनय इति । अयमपि-अपोह उपप्लवत्वात् कारणानास्त्येव इतिएवं कथमत्र सङ्केतः ? ॥
बहिरयं नास्ति अर्थे विकल्पबुद्धिप्रतिभासस्तु स्वरूपेण अस्त्येव । तत्र सङ्केतः । इति चेत्, एतदाशक्याह-कोऽयं विकल्पबुद्धिप्रतिभासः । एते वृक्षादय इति-एवं तदेकाकारतैव-विकल्पबुद्ध्येकाकारतैव । इति चेत्,
१ अनुष्टुप् । २ इदं भदन्तदिनस्य वचनम् । प्रेक्ष्यतां ३३७तम पृष्ठम् । ३ 'ततः' इति क-पाठः। ४ 'वाऽपोहः' इति घ-पाठः ।