________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) वर्थाभावेऽपि भावात्, परपक्षेऽपि तद्विवक्षाभेदोपपत्तेः, अन्यथा तत्सत्यत्वप्रसङ्गात् , वाच्याभेदात् , तद्भेदे च समानतापत्तरिति ।। । यच्चोक्तम्-'सङ्केतवशाच शब्दात् प्रतीतिस्तस्य चापोहमन्तरेणा-५ न्यत्र कर्तुमशक्यत्वात्' इत्यादि तदप्यसारम् , अपोहेऽपि सङ्केतस्य कर्तुमशक्यत्वात् । त्रिविधो हि वोऽपोह:-एकस्तावद् व्यावृत्तं खलक्षणमेव, अन्योऽपोह्यतेऽस्मिन्निति कृत्वा, यदधिकृत्याह- ..
"खभावपरभावाभ्यां यस्माद् व्यावृत्तिभागिनः". इति । अयं च शब्दलिङ्गाश्रयस्य व्यवहारस्याश्रयत्वेन व्यवस्था-. प्यते, न तु शब्दवाच्यतयेति नात्र सङ्केतः, अन्यव्यवच्छेदमात्रं
(खो० व्या०) पादानाया वाचः अर्थाभावेऽपि भावात् । एवं स्वपक्षमधिकृत्य दोषाभावमभिधाय परपक्षेऽपि तुल्यतामाह-परपक्षेऽपि-बौद्धमते तद्विवक्षाभेदोपपत्तेः तस्याः-अनृतवाचः विवक्षाभेदोपपत्तेः । अन्यथा-विवक्षाभेदमन्तरेण १५ तत्सत्यत्वप्रसङ्गात् अस्याः-अनृतवाचः सत्यत्वप्रसङ्गात् । प्रसङ्गश्च बाच्याभेदात् उपादानहेत्वभेदेन, तद्भेदे च-वाच्यभेदे च समानतापत्तेः 'मृषाभाषावर्गणोपादानायास्तथात्वाविरोधात्" इत्यनेन 'न च न स्यादनृतार्थता वाचः कस्याश्चिदपि" इति क्रिया ॥ __पूर्वपक्षान्तरपरिहारायाह-यञ्चोक्तमित्यादि । यच्चोक्तं पूर्वपक्षे-सङ्केतवशाच २० शब्दात् प्रतीतिस्तस्य च-सङ्केतस्य अपोहमन्तरेणान्यत्र-वस्तुनि कर्तुमशक्यत्वादित्यादि, तदप्यसारम् । कथमित्याह-अपोहेऽपि सङ्केत्तस्य कर्तुमशक्यत्वात् , तुल्यदोषत्वादित्यर्थः । एतदेवाह त्रिविधो हि वोऽपोह इत्यादिना, त्रिविधो युष्माकं यस्मादपोहः । एकस्तावद् व्यावृत्तं खलक्षणमेव। कथमिह शब्दार्थ इत्याह-अन्यः-पदार्थः अपोद्यते-निषिध्यतेऽस्मिन्निति २५ कृत्वा यदधिकृत्याह न्यायवादी-खभावपरभावाभ्यां यस्मात् कारणाद् व्यावृत्तिभागिनो व्यावृत्तिं भजन्ते तच्छीलाश्च । अयं च-एवम्भूतोऽपोहो व्यावृत्तस्वलक्षणरूपः शब्दलिङ्गाश्रयस्य व्यवहारस्य-प्रवृत्त्यादेः आश्रयत्वेन व्यवस्थाप्यते परम्परामूलतया; न तु-न पुनः शब्दवाच्यतयेति कृत्वा नात्र-अपोहे सङ्केतः, अन्यव्यवच्छेदमात्रं-तुच्छं द्वितीयः। इहापि ३०
१३१९तमे पृष्ठे । २ 'अन्यथा व्यवच्छेद०' इति घ-पाठः । ३-४ द्रष्टव्यं ३३२तम पृष्टम् । ५३१९तमे पृष्ठे। ६ 'अपोहसङ्केतः' इति घ--पाठः ।