________________
३३२
अनेकान्तजयपताकाख्यं प्रकरणम् [चतुर्थः
(मूलम्) अतीताजातयोश्च सर्वथाऽसत्त्वमसिद्धम्, सतः सर्वथाऽसत्ता:योगात् , तदुत्पत्त्याद्यापत्तेः, असतश्च सत्ताविरोधात् अतिप्रसङ्गात् । ५ इति तत्तथाभिधाने न कश्चिद् दोषः । न च न स्यादनृतार्थता वाचः कस्याश्चिदपि, मृषाभाषावर्गणोपादानायास्तथात्वाविरोधात्, तस्या
(खो० व्या०) दोषान्तरपरिजिहीर्षयाऽऽह-अतीतेत्यादि । अतीताजातयोश्च, प्रक्रमाद् भावयोः सर्वथा-सर्वैः प्रकारैः असत्त्वमसिद्धम् । कुत इत्याह-सतः सर्वथा १० असत्ताऽयोगात् । अयोगश्च तदुत्पत्त्याद्यापत्ते:-असत उत्पत्त्याद्यापत्तेः, 'उत्पत्तिनाशेतरोन्मजनप्रसङ्गात्' इत्युक्तं प्राक् । प्रकृतसमर्थनार्यवाह-असतश्च सत्ताविरोधात् प्रतिनियतशक्त्याऽभावेन अतिप्रसङ्गात् । असकृद् भावितमेतत् । इति-एवं तत्तथाऽभिधाने तयोः-अतीताजातयोस्तथा-तेन प्रकारेणाभिधाने न
कश्चिद् दोषः। दूषणान्तरमेव परिहरन्नाह-न च न स्यादनृतार्थता वाचः १५ कस्याश्चिदपि, किन्तु स्यादेव । कुत इत्याह-मृषाभाषावर्गणोपादानाया अस्याः तथात्वाविरोधात्-अनृतार्थत्वाविरोधात् । तस्या हि-मृषाभाषावर्गणो
(विवरणम्) पुरुषा अपि कृत्येतरभावे तयोः प्रवर्तन्ते । आसतां तावदपोह्यापोढाश्रयेतेरापोहवाचका ध्वनयो भेदेन प्रवर्तन्त इत्यपि शब्दार्थः । किमित्याह-तयोः कृत्येतरयोः पदा२० र्थयोः प्रवर्तन्ते, केचित् कृत्येषु प्रवर्तन्ते, केचिञ्चाकृत्येष्वित्यर्थः । कस्मिन् सतीत्याह
कृत्येतरभावे कृत्येतरयोर्भावः-सत्ता कृत्येतरभावः, केषाञ्चित् कृत्यत्वं केषाश्चिदकृ. त्यत्त्रमित्यर्थः । तस्मिन् सति अथ प्रवर्तन्ते तर्हि तत्प्रवृत्तौ च-कृयेतरयोर्भेदेन प्रवृत्तौ । पुनः सत्यां किमित्याह-तद्भिन्नोपादानस्वभावता तेषां--पुरुषाणां भिन्नोपादानस्वभावाः स्वरूपः-लामो येषां पुरुषाणां ते तथा तद्धावस्तत्राभिन्नोपादानजन्यता २५ इत्यर्थः । अयमस्य वाक्यस्य परमार्थ:-येऽमी त्रिभुवनोदरान्तर्वर्तिनः पुरुषास्तेषां मध्यात् केचिद् भिक्षुपासकप्रभृतयः कृत्येषु-देवपूजनादिषु प्रवर्तन्ते । अन्ये तु धीवरादयो मत्स्यबन्धनादिष्वकृयेषु । न चैतदेकोपादानतायां तेषां युज्यते युक्त्यभावात् , अतोऽभ्युपगन्तव्य एव तेषामुपादाने भेदः, तथा च तेषामुपादाने भेदः, एवं ध्वनीनामप्यपोह्यापोढाश्रयेतरापोहवाचकानामिति ॥
१ दृश्यता ३१८तम पृष्ठम् । २ 'तरेऽपोह.' इति च-पाठः । ३ 'रयोमैदनप्रवृत्तौ' इति क-पाठः ।