________________
३
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् ३३१
(मूलम्) खभावभेदानुपपत्तेः, तमन्तरेण फलभेदायोगादिति । केवलवासनाप्रकृतिनिवन्धनत्वे तु प्रधानादिबुद्धीनामागत एव मदीयोऽभ्युपगमा, तदन्यापोहबुद्धीनामतथाविधत्वात्, तथाविधापोहस्थापि सर्वत्रा- ५ भाव एवेति युक्तिसिद्धेः। तद्विषयशब्दानां चोपादानभेदात् अन्यथा विषयभेदाभावात् तत्तत्वभावत्वेन तद्वाचकत्वापत्तेरिति सूक्ष्मधिया भावनीयमित्यलं प्रपञ्चेन ॥
(खो० व्या०) स्वभावत्वविरोधात् । विरोधश्च स्वभावभेदानुपपत्तेः। न च यदेव रूपादिबुद्धि-१० सहकारिस्वभावत्वं तदेव प्रधानादिबुद्धिसहकारिस्वभावत्वमिति स्वभावभेदः, तमन्त- : रेण-स्वभावभेदं विना फलभेदायोगात्-रूपादिप्रधानादिबुद्धिफलभेदायोगात् । न च वासनाप्रकृत्युपादानभेदतस्तत एवासामतत्प्रतिभासता' इति सर्वत्र क्रियायोगः। केवलवासनाप्रकृतिनिबन्धनत्वे पुनः प्रधानादिबुद्धीनां किमित्याहआगत एव मदीयोऽभ्युपगमः। कथमित्याह-तदन्येत्यादि । तदन्यापोह-१५ बुद्धीनाम्-अरूपाद्यपोहबुद्धीनामतथाविधत्वात् अप्रधानाधपोहबुद्धिसंदृश्यस्तथा-: विधा न तथाविधा अतथाविधाः तद्भावस्तस्मात् , अप्रधानाधपोहबुद्धिविलक्षणत्वादित्यर्थः । तथाविधापोहस्यापि-प्रक्रमादपोह्यापोढाश्रयस्य वस्तुबलप्रवृत्तस्य सर्वत्र-प्रधानादौ अभाव एवेति युक्तिसिद्धेः। तद्विषयशब्दानां च प्रधानादिरूपाणां किमित्याह-उपादानभेदात्, अन्यथा-उपादानभेदमन्तरेण २० विषयभेदाभावात्-अपोह्यापोढाश्रयेतरापोहविषयभेदाभावात् । एनमेव विषय'भेदाभावमाह-तत्तत्स्वभावत्वेन तेषां-विवक्षितापोहाभिधायकोपादानस्वभावत्वेन हेतुना तद्वाचकत्वापत्तेः-विवक्षितापोहवाचकत्वापत्तेः, आगत एव मदीयोऽभ्युपगम इति सर्वत्र क्रियायोग इति । एतत् सूक्ष्मधिया भावनीयम्-न ह्यभिन्नाभिधायकोपादानस्वभावानां शब्दानामपोह्यापोढाश्रयेतरापोहवाचकत्वं न्याय्य- २५ मित्यलं प्रसङ्गेन । नाभिन्नोपादानस्वभावाः पुरुषा अपि कृत्येतरभावे तयोः प्रवर्तन्ते, तत्प्रवृत्तौ च तद्भिन्नोपादानस्वभावतेति भावना ॥
(विवरणम्) (२६-२७) नाभिन्नोपादानस्वभावाः पुरुषा अपि कृत्येतरभावे तयोःप्रवर्तन्ते, तत्प्रवृत्तौ च तदिन्नोपादानस्वभावतेति । न-नैवाभिन्नोपादानस्वभावाः सन्तः ३०
१ द्रष्टव्यं ३३० तमं पृष्ठम् । २ 'सदृशास्तथा' इति क-पाठः। ३ 'तद्विषये शब्दानां' इति घ--पाठः । ४ 'भेदमाह' इति घ-पाठः।